Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
३५८) श्रीजेनकुमारसम्भवाक्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः ११
संत्यः तार्तप्रियोपगूढाः अपि रतेन आर्ताः रतार्ताः ते च ते प्रियाश्च स्वामिनस्तैः उपगूढाः अपि संभोगावसरपीडितदयितालिङ्गिता अपि रतिं सुखं तथा न बोधितारः न ज्ञास्यन्ति । यथा तव तनूजं पुत्रं उपगुह्य आलिय आप्तमुदः आता मुद्याभिस्ताः प्राप्तहर्षाः सत्य भुवं खेलयितुं प्राप्ता यथा सुखं बोधितारः ज्ञास्यन्ति ॥ ३९ ॥
अस्मिन् मयैकासनसन्निवि, मत्तो महत्वादिगुणैरनूने । चिद्वैरिला स्पर्श निमेषमुख्यै, रस्यैव मां लक्षयितामरौघः ॥ ४० ॥
( व्या० ) अस्मिन् इति । हे देवि अस्मिन् तत्र सुते मया सह एकासनसन्निविष्टे एकं च तत् आसनं एकासनं तस्मिन् सन्निविष्टस्तम्मिन् एकासने उपविष्टे सति अमरौघः अमराणामोघ देवसमूह' । अस्य एव तव पुत्रस्यैव इलास्पर्शनिमेषमुख्यै' इलाया. स्पर्श इलास्पर्श. इलास्पर्शश्च निमेषाश्च ते मुख्यानि येषु तानि तै' पृथ्वीतलस्पर्शनादिचिह्नैः मां लक्षयिता उपलक्षयिष्यति । किंविशिष्टे अस्मिन मत्तो ( अहीरुहोऽपादाने । ७-२-८८ । इ. सू. पञ्चम्यर्थे अस्मद् शब्दात् वा तसुप्रत्ययः ।) मत्सकाशात् महत्त्वादिगुणैः महतो भावो मह्त्त्वं तत् आदि येषां ते महत्वादय. ते च ते गुणाश्च तैः गुणैः अनूने न ऊन: अनूनस्तस्मिन् संपूर्ण ॥ ४० ॥
अस्मिन्नसिव्यग्रकरे करीन्द्रा - रूढे रणाय प्रयतेऽरिभूपाः । पलायमाना वपुषो विगास्य-न्त्युच्चत्वमेके गुरुतां तथान्ये ॥ ४१ ॥
( व्या० ) अस्मिन् इति । अस्मिन् तव पुत्रे असिव्यप्रकरे असिना व्यग्रः करो यस्य स तस्मिन् खड्गव्यग्रहस्ते करीन्द्रारूढे करिणामिन्द्रस्तस्मिन् आरूढे रणाय संग्रामाय प्रयते आदरपरे सति एके अरिभूपा अस्यश्वते भूपाश्च शत्रुनृपाः चपुप. शरीरस्य उच्चत्वं तथा अन्ये वपुषो गुरुतां गुरोर्भावस्तां गुरुत्वं विगास्यन्ति । किंविशिष्टा अरिभूपा पलायमाना पलायन्ते इति पलायमाना ॥ ४१ ॥ अस्येषु पुंखक्षरवीक्षणेन, क्षरन्मदाः संख्यमतन्त्रतोऽपि । यास्यन्ति दास्यं समुपास्य लास्यं, दूरे मनुष्या दनुजारयोऽपि ॥ ४२||

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397