Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 358
________________ ३३६) श्री जैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः १० शृण्वती धवलबंधबंधुरं, स्वामिवृत्तमुपगीतमन्यया । गाहकुंड नवकाधिकं सुधा - स्थानमास्यमिदमीयमेव सा ॥ ७१ ॥ ( व्या० ) शृण्वती । सा सुमङ्गला इदमीयमेव अस्था इदं इदमीयमेव आस्य मुखं कुंडनवकाधिकं कुंडानां नवकात् अधिकं सुधास्थानं सुधाया अमृतस्य स्थानं तत् आहस्म प्रोक्तवती । किंकुर्वती सुमङ्गला घवलबंधबंधुरं धवलवास बंधश्च तेन बंधुरं ( वाश्य सिवासिमसिमध्यन्दि - रः । ४२३ । इ. उ. सू. बन्धराधातोः उरप्रत्यय 1 ) तत् मनोज्ञं धीरोद्रत १ धीरोदात्तरधीरललित ३ धीरोपशान्त ४ एतनायकगुणचतुष्करूप स्वामिवृत्तं स्वामिनो वृत्तं तत् श्रीऋषभदेवचरितं शृण्वती शृणोतीति शृण्वती ॥ ७२ ॥ साधितस्वरगुणा ऋजूभव - देहदंड तततुम्बकस्तनी । कापि नाथगुणगान लालसा, व्यर्थतां ननु निनाय वल्लकीम् ॥७२॥ ( व्या० ) साधित इति । कापि स्त्री ननु निश्चितं वीणा विपंची नकुलोष्ठी किंनरी शततंत्री जया हस्तिका कुब्जिका कच्छपी घोषवती सारंगी उदुंबरी त्रिसरी ढिबरी परिवादिनी आलिचिणिप्रभृतिरूपवल्लकीं व्यर्थतां व्यर्थस्य भावो व्यर्थता तां निरर्थकतां निनाय । किंलक्षणा स्त्री नाथगुणगानलालसा नाथस्य श्रीऋषभदेवस्य गुणानां वंश १ विद्या २ विनय ३ विजय ४ विवेक ५ विचार ६ सदाचार ७ विस्तार ८ प्रभृतिषण्णवतिगुणानां गाने लालसा तत्परा । पुनः साधितस्वरगुणा साधिताः स्वरस्य गुणाः यथा सा । पक्षे साधितस्वरो गुणस्तन्त्री यस्याः सा । तद्यथा सप्तस्वरास्त्रयोग्रामा, मूर्च्छनास्त्वेकविंशतिः । ताना एकोनपञ्चाशत् इत्येतद्गोतलक्षणम् ॥ १॥ उद्गाहादौ नकारो न, मध्येयकार एव च ॥ अन्ते हकारो नो कार्यत्रयो गीतस्य वैरिणः ॥ २ ॥ नामाक्षरो यदुद्गाने भवेत्तत्र न संशयः । हकारो वा घकारो वा रेफोवापि कुलक्षयः ॥ ३ ॥ नकारे नष्टसर्वस्वं यकारे धातमेव च । हकारे हरति लक्ष्म तस्माद्गीतं न धारयेत् ॥ ४ ॥ हे नघनतरषभवर्णान् कवयः परिहृत्य कुरुत सुकवित्वमित्यादिदोषान् विचार्य सुस्वरे १ सुताले २ सुपदं ३ शुद्धं ४ ललितं ५ सुबद्धं ६ सुप्रमेयं ७ सुराङ्गना ८

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397