Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha
View full book text
________________
श्रीजनामारसम्भाव्य महाव्यम् टीकासमलंकृतम् ॥ सर्गः ११ (३५१
समाहिता संनिहितालिपालि-प्रणीतगीतध्वनिदत्तकर्णा । उपस्थितं सा सहसा पुरस्ता-दक्षा ऋभुक्षाणमथालुलोक ॥ २१ ॥
(व्या०) समाहिता इति । सा दक्षा चतुरा सुमङ्गला सहसा झटिति *भुक्षाण ( अते भुक्षिनक् । ९२८ । इ. उ. सू. *धातोः भुक्षिनक् प्रत्ययः इयति इति ऋभुक्षाः । ) मिन्द्रं उपस्थितं आगतं पुरस्तात् अग्रे आलुलोके अ५श्यत् । किंलक्षणा सुमङ्गला समाहिता समाधियुक्ता संनिहितालिपालिप्रणीतगीत
चनिदत्तकर्णा संनिहिता चासौ समीपस्था आलीनां सखीनां पालिश्च तया प्रणीते कृते गीतस्य ध्वनौ दत्तो कर्णी यया सा ॥ २१ ॥ युगादिमतुर्दयितेति तीर्थ, तां मन्यमानः शतमन्युरूचे। नत्वाञ्जलेर्योजनया द्विनाल-नालीककोशभ्रममादधानः ॥ २२ ॥ - (व्या०) युग इति । शतमन्यु शतं मन्यव प्रतिमाभिप्रहविशेषाः यस्य स. इन्द्र. अस्य इन्दस्य कार्तिकभवे शतं प्रतिमाभिग्रहविशेषा अभवन् इत्यागमविदः तां सुमङ्गला युगादिभर्तुः आदिश्वासी भर्ता च आदिनाथः युगे आदिभर्ता युगादिभर्ता तस्य दयिता भार्या इति तीर्थ मन्यमानः मन्यते इति मन्यमानः सन् नत्वा ऊचे । किंविशिष्टः इन्द्रः अञ्जले. योजनया करणेन द्विनालनालीककोशभ्रमं द्वौनालौ यस्य तत् द्विनालं द्विनालं च तत् नालीकं द्विनालनाकीकं तस्य कोशस्तस्य भ्रमं भ्रान्ति आदधान: आधत्ते इति आदधानः ॥ २२ ॥ परिच्छदाप्यायकसौम्यदृष्टे, मृगेक्षणालक्षणकोशसृष्टे । जयैकपत्नीश्वर विश्वनाथ, श्रीमहत्पञ्जरसारिकत्वम् ॥ २३ ॥
(०या०) परिच्छद इति । हे परिच्छदाप्यायकसौम्यदृष्टे परिच्छदे (परितः छाचते अनेन इति परिच्छेद । पुनाम्नि घः । ५-१-१३० । इ. सू. करणे अर्थ घः एकोपसर्गस्य च घे। ४-२-३४ । इ. सू. घे परे परिपूर्वकछादयतेर्हस्वः ।) परिवारजने आप्ययका सौम्या दृष्टिर्यस्याः सा तस्याः संवोधनं क्रियते परिवारजने मनोहरशान्तदृष्टिमति । भृक्षणालक्षणकोशसृष्टे मृगस्य ईक्षणे इव ईक्षणे यासा ता मृगेक्षणाः स्त्रियस्तासां लक्षणानि यथा 'त्रिषु श्यामां त्रिषुश्वेतां,

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397