Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 375
________________ श्रीजग मारसम्मवाल्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ११ (३५३ आख्यां नाम आता प्रासा सती पयसां पत्यो समुद्रे पपात | सा सरस्वती अपि ते तब तुलां सादृश्यं कथं पिपर्ति प्राप्नोति ॥ २५ ॥ या स्वर्वधूः काचन काश्चनाझी, तुलां त्वयारोमियेष मूढा । असारतां कि विवुधैर्विचार्य, रम्भेति तस्या अभिधा व्यधायि ॥२६॥ (व्या०) येति । या काञ्चनाङ्गी ( नासिकोदगेष्ठजड्घादन्तकर्णशृगागात्रकण्ठात् । २-४-३९ । इ. सू. काञ्चनपूर्वक अङ्गशब्दात् वा डीः ।) काश्चनभित्र अङ्ग यस्या सा सुवर्णशरीरा काचन स्वर्वधू देवाङ्गना मूढा सती त्वया तुला सादृश्यमारोढुमियेष वाञ्छति स्म । विबुधैर्विद्धि देवैर्वा असारतां असारस्य भाव असारता विचार्य तस्याः स्वर्ववाः कि रंभा इति नाम व्यधायि कृता । रम्भाशब्देन कदली सा मध्ये असारा भवति ॥ २६ ॥ कलाकुलाचारतुरूपताधं, यं तावकं गौरि गुणं गृणीमः। मामहाब्धाचिव तत्र मन्ना, वाग् न स्वमुद्धर्तुमधीश्वरी नः ॥२७॥ __ (व्या०) कलेति । हे गौरि वयं तावकं तव अयं तावक (वा युष्मदस्मदोऽजीनौ युष्माकास्माक चास्यैकत्वे तु तवकममकम् । ६-३..६७ । इ. सू. युष्मद अब् तबकादेशश्च ।) स्तं त्वदीयं कलाकुलाचारसुरूपताद्य कलाश्च कुलाचारश्च सुरूपता च ता आधा यस्य स त य गुणं गृणीमः ब्रूमः तत्र तस्मिन् गुणे मना नोऽस्माकं वाक् स्वं तु न अधीश्वरी न समर्था । का इव मा इव छागीव महा-धौ महांश्चासौ अब्धिश्च तस्मिन् महासमुन्द्रे मना सती स्वं उतुं समर्था न स्यात् ॥ २७ ॥ सीमासि सीमन्तिनि भाग्यवत्सु, यल्लोकमतुर्हदयङ्गमासि। यचेशं स्वप्नसमूहमूह-क्षमं श्रुताधेयधियामपश्यः ॥ २८ ॥ (व्या०) सीमा इति । हे सीमन्तिनि त्वं भाग्यवत्सु भाग्यमस्ति एषामिति भाग्यवन्तस्तेषु लोकेषु सीमा अवधिरसि । यत् त्वं लोकमतुः लोकानां भर्ता स्वामी तस्य श्रीयुगादीश्वरस्य हृदयङ्गमा हृदयं गच्छतीति हृदयङ्गमा (नाम्नो गम खड्डौ च विहायसस्तु विह । ५-१-१३१ । इ. सू. हृदयरादपूर्वकगमधातो:

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397