Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 377
________________ श्रीजैन मरिसमास्य महाव्यम् टासमतम् ॥ सर्गः ११ (३५५ __ (पा०) कदाचिदिति । हे कल्याणि कदाचित् सूरः सूर्य पश्चिमायां दिशि उद्गच्छति । वा अथवा कदापि सुमेरुः परिवर्तते मेरुपर्वतः स्वस्थानाच्चलति । कदापि वार्धिः समुद्र सीमानं मर्यादा अत्येति अतिक्रामति । कदापि आश्रयाश: अग्नि. शत्यं समास्कन्दति समागच्छति । कदाचित् वसुधा पृथिवी सर्वसहत्वं सर्व सहते इति सर्वसहा (सर्वात् सहश्र । ५-१-१११ । इ. सू. सर्वशब्दात् महधातो खप्रत्ययः खित्वात् मोऽन्तः अदन्तात् स्त्रियामाप् ) तस्या भावः सर्वसहत्वं तत् अवधूय विमुच्य श्वभ्रातिथित्वं अतिथेः भावः अतिथित्वं श्वभ्रस्य पातालस्य अतिथित्वं तत् भजते सेवते । तथापि हे रम्भोर (उपमानसहितसंहितसहशफवानल मणाधूरो । २-४-७५ । इ. सू. रंभाशब्दपूर्वक86शब्दात् स्त्रियांसमूड ।) रम्भा कदली तद्वत् उरू यस्याः सा तस्याः संबोधनं हे रम्भोरु ते तव प्रियस्य श्रीयुगादीशस्य दम्भोरगगारुडं दंभ एव उरगः तस्य गारू मायारूपसपम्य गारुडमन्त्रसमानं वचो न विपर्यस्यति न परावतीते ॥ ३१-३२ ॥ युग्मम् । यथातथामस्य मनुप्ववाचं, वाचंयमानामपि माननीयाम् । 'पूर्णवधौ प्राप्स्यसि देवि मुनु, स्वं विद्धि नूनं सुकृतैरनूनम् ॥३३॥ (व्या०) यथा इति । हे देवि त्वं अस्य भगवतो यथातथा सत्यां वाचं वाणी मनुष्व जानीहि । किंविशिष्टां वाचं वाचंयमानामपि वाचं यच्छन्तीति वाचंयमा (वाचंयमो व्रते । ५-१-११५ । इ. सू. व्रतविषये वाचंयमशब्दो निपादेवते) मुनयस्तेषां यतीनामपि माननीयां ( तव्यानीयौ । ५-१-२७ । इ. सू. मान्धातो. कर्मणि अनीयः अकारान्तत्वात् आप् मानयितुं योग्या माननीया ।) मान्यां हे देवि त्वं अवधौ पूर्ण सति सूनुं पुत्रं प्राप्स्यसि । त्वं नूनं निश्चित स्वं आत्मानं सुकृत पुण्यै अनूनं न ऊन• अनूनस्तमनून संपूर्ण विद्धि जानीहि ३३ दाता कुलीनः सुपचा रुचाढयो, रत्नं पुमानेव न चाश्मभेदः। तद्रनगर्दा भवती निरीक्ष्य, तयाख्ययापनपतेतरां भूः ॥ ३४ ॥ (व्या०) दाता इति । हे देवि पुमाने रत्नं वर्तते न च अश्मभेद: अस्मनो भेदः पाषाणविशेषो रत्नम् । किलक्षण:पुमान् दाता ददातीति दाता विश्वे

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397