Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 372
________________ ३५०) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः११ चलचञ्चलनेत्रभृशं चलतः इति चलन्तौ चलन्तौ चञ्चले नेत्रे एव भृङ्गौ भ्रमरौ यस्मिन् तत् । किंविशिष्टं कमलं प्रातः प्रभाते प्रबुद्धं विकसितम् । पुनः परितः समन्ततः प्रसक्तावश्यायं प्रसक्तोऽवश्यायो यस्य तत् लभतुहिनम् ॥ १८ ॥ निशावशाद्भूषणजालमस्या, विसंस्थुलं मुष्ठ निवेशयन्ती । काप्युज्झितं लक्षणवीक्षणस्थ, क्षणे करं दक्षिणमन्वनैषीत् ॥ १९ ॥ (०या०) निशा इति । कापि सखी अस्याः सुमङ्गलाया दक्षिणं कर अन्वनैषीत् रुष्टं प्रीतिमन्तं चकार । किंलक्षणं दक्षिणं कर लक्षणवीक्षणस्य लक्षणाना वीक्षणं तस्य क्षणे समये लक्षणावलोकनसमये उज्जितं त्यक्तम् । पुरुषस्य दक्षिणहस्ते लक्षणानि वीक्ष्यन्ते नार्यास्तु वामहस्ते । तदा दक्षिणो हस्तो रुष्ट इति भावः । किंकुर्वती सखी निशावशात् निशाया रजन्या वंशात् अस्या. सुनङ्गलाया विसंस्थुलं भूषणजालं भूषणानां जालमाभरणसमूहं सुष्टु शोभनं निवेशयन्ती निवेशयतीति कुर्वती तदा दक्षिणहस्तस्यापि भूषणानि सुष्टु निवेशितानि इति प्रीतिमांश्चक्रे ॥ १९ ॥ यं दर्पणो भस्मभरोपरागं, प्रगेऽन्वभूत् कप्राधिया म्रदिष्ठः । तदा तदायप्रतिमामुपास्य, सखीकरस्यः प्रशशंस तं सः ॥ २०॥ (व्या०) यमिति । दर्पण आदर्शः प्रो प्रभाते कष्टधिया कष्टस्य धीस्तया कष्टबुद्धया यं भस्मोपरागं भस्मन उपरागतं भस्मना मार्जनोपप्लवं म्रदिष्टः (गुणाझाष्ठे यस् । ७-३-९ । इ. सू. मृदुशब्दात् इष्ठः । पृथुमृदुभृशकशहढपरिवृढस्य ऋतो र । ७-४-३९ । इ. सू. इष्ठे परे *तः रः ।) अतिशयेन मृदुः इति सुकुमालतरः सन् अन्वभवत् अनुभवति स्म । तदा तस्मिन्नवसरे दर्पणः सखीकरस्थः ( स्थापास्नानः क । ५-१-१४२ । इ. सू. करपूर्वकस्थाधातोः क प्रत्ययः । इडेत् पुसीति आलोपः । ) सख्याः करयोस्तिष्ठतीति सखीहस्तस्थित सन् तदास्यप्रतिमा तस्याः सुमङ्गलाया. आस्यं मुख तस्य प्रतिमां प्रतिविम्बं उपास्य सेवित्वा तं भस्मभरोपरागं प्रशशंस शंसितवान् ॥ २० ॥ '

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397