Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 366
________________ __३४४) श्रीजेनमारसम्भवाल्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः ११ ॥ अथ एकादशः सर्गः प्रारभ्यते ॥ निराकरिष्णुस्तिमिरारिपक्षं, महीभृतां मौलिषु दत्तपादः । अथ ग्रहाणामधिभूरुदीये, प्रसादयन् दिललनाननानि ॥ १॥ __ (व्या०) निराकरिष्णुरिति । अथानन्तरं ग्रहाणां अधिभूः स्वामी श्रीसूर्य उदीय उदयं प्राप्तः । किंकुर्वन् सूर्यः दिग्ललनाननानि दिश एव ललना:स्त्रियरखासा आननानि मुखानि प्रसादयन् प्रसादयतीति दिगङ्गनानां मुखानि प्रसन्नीकुर्वन् पुनः किविशिष्टः तिमिरारिपक्षं तिमिराणि एव अरयस्तेषां पक्षं अन्धकारशत्रुपक्षं निराकरिष्णु: (भ्राज्यलड्गनिराकगभूसहिरूचिकृतिधिचरिप्रजनापत्र! इष्णु: ५-२-२८ । इ. सू. शीलादिसदर्थे निरापूर्वककृपधातोः इष्णुप्रत्ययः।) निराकरोतीत्येवं शीलः । पुन: महीभृतां महीं बिभ्रतीति महीभृतस्तेषां पर्वतान राज्ञां च मौलिषु शिखरेषु मस्तकेषु वा दत्तपादः दत्ताः पादा येन सः दत्तकिरणः दत्तचरणो वा ॥ १ ॥ तमितवांधांबुजबोधधिण-भोपांधुशोषाध्वविशोधनाधाः । अर्थक्रिया भुरितरा अवेक्ष्य-वेधा व्यधादस्य करान् सहस्रम् ॥२॥ (व्या०) तमिस इति । वेधा ब्रह्मा अस्य रवः सूर्यस्य सहसं करान ज्यधात् चकार । यथा विंशतिः पुरुषाः अत्रैकवचनं तथा अत्रापि। किंकृत्वा तमिनबाघांबुजबोधधिष्णमोषांबुशोषाध्यविशोधनाचाः तमित्राणामन्धकाराणां बाधा तमिस्रबाधा अन्धकारपीडा अंबुजानां बोधः अम्बुजबोधः कमलविकासः धिष्णानां मोषः धिमोषः नक्षत्रमोष अंबुनः शोषः अम्बुशोषः जलशोषः अध्वनां विशोधनं अध्वविशोधनं मार्गशोधनं तमिस्रबाधा च अम्बुजबोधश्च घिष्णमोषश्च अम्बुशोषश्च अध्वविशोधनं च इति विशोधननानि तानि आधानि यासां ताः भरितराः प्रचुराः अर्थक्रियाः अर्थानां क्रियास्ताः कार्याणि अवेक्ष्य ज्ञात्वा ॥ २ ॥ प्रातःप्रयाणाभिमुखं तमिस्र, कोकास्यमालिन्यसरोजमोहौ। आलव्य साथै न हि मार्गमेको, गच्छेदितिच्छेदितपन्न नीतिम् ॥३॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397