________________
__३४४) श्रीजेनमारसम्भवाल्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः ११
॥ अथ एकादशः सर्गः प्रारभ्यते ॥
निराकरिष्णुस्तिमिरारिपक्षं, महीभृतां मौलिषु दत्तपादः । अथ ग्रहाणामधिभूरुदीये, प्रसादयन् दिललनाननानि ॥ १॥ __ (व्या०) निराकरिष्णुरिति । अथानन्तरं ग्रहाणां अधिभूः स्वामी श्रीसूर्य उदीय उदयं प्राप्तः । किंकुर्वन् सूर्यः दिग्ललनाननानि दिश एव ललना:स्त्रियरखासा आननानि मुखानि प्रसादयन् प्रसादयतीति दिगङ्गनानां मुखानि प्रसन्नीकुर्वन् पुनः किविशिष्टः तिमिरारिपक्षं तिमिराणि एव अरयस्तेषां पक्षं अन्धकारशत्रुपक्षं निराकरिष्णु: (भ्राज्यलड्गनिराकगभूसहिरूचिकृतिधिचरिप्रजनापत्र! इष्णु: ५-२-२८ । इ. सू. शीलादिसदर्थे निरापूर्वककृपधातोः इष्णुप्रत्ययः।) निराकरोतीत्येवं शीलः । पुन: महीभृतां महीं बिभ्रतीति महीभृतस्तेषां पर्वतान राज्ञां च मौलिषु शिखरेषु मस्तकेषु वा दत्तपादः दत्ताः पादा येन सः दत्तकिरणः दत्तचरणो वा ॥ १ ॥ तमितवांधांबुजबोधधिण-भोपांधुशोषाध्वविशोधनाधाः । अर्थक्रिया भुरितरा अवेक्ष्य-वेधा व्यधादस्य करान् सहस्रम् ॥२॥
(व्या०) तमिस इति । वेधा ब्रह्मा अस्य रवः सूर्यस्य सहसं करान ज्यधात् चकार । यथा विंशतिः पुरुषाः अत्रैकवचनं तथा अत्रापि। किंकृत्वा तमिनबाघांबुजबोधधिष्णमोषांबुशोषाध्यविशोधनाचाः तमित्राणामन्धकाराणां बाधा तमिस्रबाधा अन्धकारपीडा अंबुजानां बोधः अम्बुजबोधः कमलविकासः धिष्णानां मोषः धिमोषः नक्षत्रमोष अंबुनः शोषः अम्बुशोषः जलशोषः अध्वनां विशोधनं अध्वविशोधनं मार्गशोधनं तमिस्रबाधा च अम्बुजबोधश्च घिष्णमोषश्च अम्बुशोषश्च अध्वविशोधनं च इति विशोधननानि तानि आधानि यासां ताः भरितराः प्रचुराः अर्थक्रियाः अर्थानां क्रियास्ताः कार्याणि अवेक्ष्य ज्ञात्वा ॥ २ ॥ प्रातःप्रयाणाभिमुखं तमिस्र, कोकास्यमालिन्यसरोजमोहौ। आलव्य साथै न हि मार्गमेको, गच्छेदितिच्छेदितपन्न नीतिम् ॥३॥