________________
श्रीजैनकुमारसामवाल्य महाकाव्यम् टीकासमलंतम् ॥ सर्ग. ११ (३४५
(व्या०) प्रातः इति । तमिस्र अन्धकार इति नीति न्यायं नच्छेदितवत् न छिनत्तिस्म । इतीति किं न हि एको मार्ग गच्छेत । किंरूपं तमिस्र प्रातःप्रयाणाभिमुख प्रभाते प्रयाणस्य गमनस्य संमुख किंकृत्वा कोकास्यमालिन्यसरोजमोहौ कोकानां चकवाकानामास्यानि तेषां मालिन्यं कोकास्यमालिन्यं सरसि जातानि सरोजानि तेषां मोह. सरोजमोह कोकास्यमालिन्यं च सरोजमोहश्च कोकास्यमालिन्यसरोजमोहौ तौ द्वौ साथ आलम्व्य आश्रित्य ॥ ३ ॥ तमो ममोन्मादमवेक्ष्य नश्य-देतैरमित्रं स्वगुहास्वधारि।। इति जुधेव घुपतिगिरीणां, मूर्नो जघानायतकेतुदंडैः ॥ ४ ॥
(व्या०) तम इति । धुपतिः (उ पदान्तेऽभूत् । २-१-११८ । इ. सू. दिवोवकारस्य उः ।) दिव. पति सूर्यः गिरीणां पर्वतानां मूर्ध्न मस्तकानि आयतकेतुदंडे आयताश्च ते केतवश्च त एव दंडास्त । विस्तीर्णकिरणदडै जधान । प्रेक्षते इति क्रुधा इव रोषेण इव । इतीति किं एते पर्वतैर्मम अमित्रं शत्रुरूपं तम अन्धकार स्व गुहासु स्वस्य गुहास्तासु आत्मीयगुहासु अधारि धृतम् किंकुर्वत् तम मम उन्माद अवेक्ष्य दृष्ट्वा नश्यत् नश्यतीति नश्यत् ॥ ४ ॥ क्षाराम्बुपानादनिवृत्ततृष्णः, पूर्वोदधेरेप किमौर्ववह्निः। नदीसर:स्वादुजलानि पातु-मुदेति कैश्चिजगदे तदेति ॥ ५ ॥
(न्या०) क्षार इति । तदा तस्मिन्नवसरे कैश्चित् पुरुष इति जगदे जल्पितम् । इतीति किम् । एष पूर्वोदधे ( पूर्वापरप्रथमचरमजयन्यसमानमध्यमध्यमवीरम् । ३-१-१०३ । इ. सू. कर्मधारयसमास 1) पूर्वश्चासौ उदधिश्च तस्मात् पूर्वसमुद्रात् किं औश्वह्निः वडवानल क्षाराम्बुपानात क्षार च तत् अन्दु च जलं तस्य पानात् अनिवृत्ततृष्ण न निवृत्ता अनिवृत्त अनिवृत्ता तृष्णा यस्य स. अभन्नतृष्णः सन् नदीसर स्वादुजलानि स्वादूनि च तानि जलानि स्वादुजलानि नद्यश्च सरांसि नदीसरांसि नदीसरसां स्वादुजलानि नदीसर स्वादुजलानि पातुं उदेति उदयं प्राप्नोति ॥ ५ ॥ इन्दोः सुधाश्राविकरोत्सवज्ञा-विज्ञातभाव्यर्ककरोपतापा । व्याजानिशाजागरगौरवस्थ, शिश्ये मुखं कैरविणी सरस्म ॥ ६ ॥