________________
३४६) श्रीजैनकुमारसम्भवास्यं मन्यम् टीकासमलंकृतम् ॥ सर्गः ११
( व्या० ) इन्दोः । कैरविणीकुमुदिनी या इन्दोः किरणैर्विकसति सा कैरविणी कुमुदिनीत्युच्यते । निशा जागरगौरवस्य निशायां रजन्यां जागरस्य गौरवं गुरुता तस्य व्याजात् सरस्सु सरोवरेषु सुखं यथा भवति तथा शिरये सुप्ता संकोचमाप्ता इत्यर्थः । किंलक्षणा कैरविणी इन्दोश्चन्द्रस्य सुधा श्राविकरोत्सवज्ञा सुधां श्रवन्तीति सुधाश्राविण ते च ते कराश्च तेषां अमृतश्राविणां किरणानां उत्सवं जानातीति सुधाश्राविकरोत्सवज्ञा । विज्ञातभान्यर्क करोपतापा भविष्यतीति भावी ( वत्स्थति गम्यादिः । ५ -३ - १ । इ. सू. भविष्यत्यर्थे भूधातो औणादिकोणिन् ।) स चासो अर्कश्च सूर्यः भाग्यर्कस्तस्य कराः तेषां भविष्यत्सूर्यकिरणानामुपतापः विज्ञात भाव्यर्ककरोपतापो यया सा ॥ ६ ॥ बद्धाञ्जलिः कोशमिषाद्गतेना, जातश्रियं पङ्कजिनीं दिनाप्त्या । जहास यत्तद्वयसने निशायां, कुमुद्वती तत् क्षमयांवभूव ॥ ७ ॥
( व्या० ) बद्राञ्जलिः । कुमुद्वती कुमुदिनी निशायां रात्रौ यत् तद्वयसने तस्या' कमलिन्या व्यसने कष्टे सति जहास हसितवती विकसिता वा तत् क्षमयांबभूव । किंकृत्वा दिनापत्या दिनस्य आप्ति प्राप्तिस्तया दिवसप्राप्त्या पङ्कजिन कमलिनीं जातश्रियं जाता श्रीर्यस्याः सा ताम् । किंलक्षणा कुमुद्दती कोशमिषात् फोशस्य मुकुलस्य मिषात् बद्वाञ्जलिः बद्धः अञ्जलिर्यया सा योजितहस्ता ||७|| देहेन सेहे नलिनं यदिन्दु - पादोपघातं निशि तं चत्राम | पराभवं सूरकराभिषङ्गे, प्रगे हृदो निर्यदलिच्छलेन ॥ ८ ॥
( व्या० ) देहेन इति । नलिनं कर्तृपदं कमलं निशि रात्रौ यत् इन्दुपादोपघातं इन्दोश्चन्द्रस्य पादाः किरणास्तेषां पादाश्चरणा वा तेषां उपघातः प्रहारस्तं देहेन शरीरेण सेहे । प्रगे प्रभाते सूरकराभिषङ्गे सूरस्य सूर्यस्य करो: किरणास्तेषामभिपट्टे सूर्यकिरणसंसर्गे हृदो हृदयात् निर्यदलिच्छलेन निर्यन्तश्चते अलयच भ्रमरास्तेषां मिपेण निर्गच्छ भ्रमरमिषेण तं पराभवं ववाम वमतिस्म ॥ ८ ॥ भित्त्वा तमः शैवलजालमंशु-मालिद्विपे स्फारकरे प्रविष्टे । आलीन पूर्वोऽपससार सद्यो, वियत्तडागादुडुनीडजौघः ॥ ९ ॥