________________
श्रीजैनकुमारसम्भवाख्यं मद्दाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ११ (३४७
(०या० ) भित्वा इति । उडुनीडजौघः उडूनि एव नीडजानां पक्षिणा मोघः नक्षत्ररूपपक्षिसमूहः आलीनपूर्वः पूर्वमालीन आलीनपूर्वः पूर्वनिविष्टः सन् सद्यस्तत्कालं वियत्तडागात् वियदेव तडागस्तस्मात् आकाशसरोवरात् अपससार अपसृतः । क सति तम शैलजालं तमांसि एव शैवलानि तेषां जालं त अन्धकाररूपशैवालसमूहं भित्त्वा स्फारकरे स्फार करो यस्य स तस्मिन् प्रौढकिरणे महाशुंडादंडे वा अंशुमालिद्विपे अंशूनां किरणानां मालाः सन्ति अस्येति अंशुमाली सूर्यः स एव द्विपोगजस्तस्मिन् सूर्यरूपगजे प्रविष्टे सति ॥ ९ ॥ किश्चित् समासाद्य महः पतङ्ग - पक्षः क्षपायां यदलोपि दीपैः । चां वैरशुद्धिं व्यधिताभिभूय, दीपान् प्रगे कोऽप्युदितः पतङ्गः ॥१०॥ ( व्या० ) किञ्चित् इति । दीपै क्षपायां रात्रौ किञ्चिन्महस्तेजः समासाद्य 'आप्य पतङ्गपक्ष' पतङ्गस्य पक्ष शलभपक्षः पक्षे सूर्यपक्षः यत् अलोपि लुप्तः । अगे प्रभाते कोऽपि पतङ्ग उदितः सन् दीपान् अभिभूय अभिभूत्वा इति पराभूय वैरशुद्धि वैरस्य शुद्धिस्तां व्यधित कृतवान् । अत्रापि पतङ्गः सूर्यः शलमो 'चा ज्ञेयः ॥ १० ॥
गते व संत्रवृधेऽन्धकारो, गतेऽन्धकारे च रविर्दिदीपे | तथापि भानुः प्रथितस्तमोभि-दहो यशो भाग्यवशोपलभ्यम् ॥ ११ ॥
( व्या० ) गत इति । खौ सूर्ये गते सति अन्धकारो ववृधे वृद्धि प्राप्तः अन्धकारशब्द पुंनपुंसकः । अन्धकारे गते गते सति रविः सूर्योदि दीपे दीप्तः । - तथापि भानु सूर्य तमोभित तमांसि भिनत्तीति तमोभित् अन्धकारभित् प्रथितो विख्यातः । अहो इति आश्चर्ये यशो भाग्यवशोपलभ्यम् भाग्यस्य वशेन उपलभ्यं प्राप्यं वर्तते ॥ ११ ॥
कृतो रद्भिः कटु लोककर्णो-चाटो निशाटैस्तमसो बलाद्यैः । सूरे तमो निम्नति मौनिनस्ते, निलीय तस्थुर्दरिणो दरीषु ॥ १२ ॥
( व्या० ) कृतो इति । यैः निशा: निशायामटन्तीति निशाटास्तैः वूकैः तमस' बलात् अन्धकारस्य चलातू कटुरदद्भिः कर्णस्य कटुशब्दं कुर्वद्भिः सद्भिः