________________
- ३४८) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलहतम् ॥ सर्ग: ११ ।।
लोककर्णोच्चाट: लोकानां कर्णेषु उच्चाट कृतः । ते घका दरिणो भययुक्ताः । मौनिन· मौनमस्ति एषामिति मौनिनः मौनयुक्ता. दरीषु गुहासु निलोय तस्थुः स्थिताः । क सति सूरे सूर्ये तमोऽन्धकारं निन्नति विनाशयति सति ।। १२ ।। कोकप्रमोदं कमलप्रबोध, स्वेनैव तन्वस्तरणिः करेण । नीति व्यलंधिष्ट न पोष्यवर्ग-बनन्यहस्ताधिकृतिस्वरूपाम् ॥१३॥
(व्या०) कोक इति । तरणिः सूर्य कोकप्रमोद कोकानां चक्रवाकानां प्रमोदो हर्षरत कमलप्रबोधं कमलानां प्रबोधं विकाशं स्वेनैव करेण आत्मीयेन किरणेन हस्तेन वा तन्वन् तनोतीति तन्वन् सन् पोष्यवर्गेषु पोष्याणां वर्गास्तेषु अनन्यहस्ताधिकृतिस्वरूपां हस्तस्य अधिकृतिः हस्ताधिकृतिः अन्यस्य हस्ताधिकृतिन भवतीति अनन्यहरताधिकृतिः सा एवं स्वरूपं यस्या सा तां नीति न च्यलंधिष्ट न लंघयतिस्म ॥ १३ ॥ इलातले बालरवेमयुखै रुन्भेषिकाश्मीरवनायमाने । सुमङ्गला को कुममङ्गरागं, निर्वष्टुकामेव मुमोच तल्पम् ॥ १४ ॥
(व्या०) इलेति । इलातले इलाया. पृथिव्यास्तलं तस्मिन् पृथ्वीतले बालरवे: बालश्चासौ रविश्च तस्य बालार्कस्य मयूखैः किरणें । उन्भेषिकाश्मीरवनायमाने काश्मीराणां वनं काश्मीरवनं उन्भेषि च तत् काश्मीरवनं च तदिन आचरति तस्मिन् विकस्वरकाश्मीरवनवत् आचरति सति सुमङ्गला कौंकुम अङ्ग-. राग कुड्कुमस्य अयं तं अङ्गस्यरागस्तं निबष्टुं कामो यस्याः सा निष्टकामा इव उपभोक्तुकामा इव तल्पं शयनीयं सुमोच ॥ १४ ॥ जलेन विश्वग्विततस्तदंशु-जालैरभेदं भजता प्रपूर्णाम् । करे मृगाङ्कोपलवारिधानी, कृत्वा सखी काप्यभवत्पुरोऽस्याः ॥१५॥
(व्या०) जलेनेति । कापि सखी करे हस्ते जलेन प्रपूर्णा मृगाकोपलवारिधानी वारीणि धीयन्ते अस्यामिति वारिधानी (करणाधारे । ५-३-१२९ । इ. सू. वारिशदपूर्वकधाधातो अधिकरणे अनट् । टिस्वात् डी) मृगाकोपलानां वारिधानी तां चन्द्रकान्तमणिनिर्मितकरकं कृत्वा अस्या. सुमङ्गलाया. पुरोऽग्रे