SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ श्रीजनमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ११(३४९. अभवत् । किविशिष्टेन जलेन विश्व समन्ततः विततः प्रसतः तदंशुजालैः तस्याः मृगाकोपलवारिधान्या. अंशूनां जालानि तैः किरणसमुहै: अभेद न भेदोऽभेदस्तं ऐक्यं भजता प्राप्नुवता ॥१५॥ मुमङ्गला मृदुपाणिदेशे, सा मुश्चती निर्मलनीरधाराः । उल्लासयन्ती गुरुभक्तिवल्ली, कादम्बिनीवालिजनेन मेने ॥ १६ ॥ (व्या०) सुमङ्गला इति । आलिजनेन आलीनां जनस्तेन सखीवर्गेण सा स्त्री कादम्बिनी इव मेघमालेव मेने मन्यते स्म । किंकुर्वती सा सुमङ्गलाया मृदुपाणिदेशे पाण्योर्देश• मृदुश्चासौ पाणिदेशश्च तस्मिन् कोमलहस्तप्रदेश कोमलहस्ते निर्भलनीरधार। निर्मलं च तत् नीरं च निर्मलनीरं तस्य धारास्ताः मुश्चती । पुन: गुरुभक्तिवल्ली गुरोः भक्तिः सा एव वल्ली तां उल्लासयन्ती उल्लासयंतीति पई यन्ती ॥ १६ ॥ यदम्भसा दम्भसमुज्झिताया, राझ्या मुखेन्दोविहितोऽनुषङ्गः । कृतामृताख्य कृतकर्मभिस्त-जगत्सु तज्जीवनतां जगाम ॥१७॥ (व्या०) यदिति । अम्भसा पानीयेन दम्भसमुज्झिताया. दम्भेन समु. ज्झिता तस्या माया मुक्ताया राज्याः सुमङ्गलाया मुखेन्दो. मुखमेवेन्दुस्तस्य मुखचन्द्रस्य यत् अनुषङ्गः संपर्को विहितः । तत् तस्मात् कारणात् तत् अम्भः कृतकर्मभि. कृतानि कर्माणि यैस्ते कृतकर्माणस्तः कृतकर्मभिः विनिः जगत्सु विश्वेषु कृतामृताख्यं कृता अमृतमिति आल्या यस्य तत् सत् जीवनतां जीवनस्य भावो जीवनता तां जगाम प्राप । अमृतं जीवनं पानीयभेवोच्यते ॥ १७ ॥ मुख परिक्षालनलग्नवारि-लवं चलचञ्चलनेत्रभृङ्गम् । प्रातःप्रबुद्धं परितःप्रसत्ता-वश्यायमस्या जलज जिगाय ॥ १८ ॥ (व्या०) मुखमिति । अस्या सुमङ्गलाया मुख कर्तृपदं जलज (सप्तम्याः ५-१-१६९ । इ. सू. जलपूर्वकमनेई । डिवात् अन्त्यस्वरादिलोप ।) जले जातं तत् कमलं कर्मपदं जिगाय जयति स्म । किंलक्षणं मुख परिक्षालनलमवारिलवं परिक्षालनेन लामा सक्ताः वारिणो लवा बिन्दयो यस्मिन् तत् । पुन.
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy