________________
श्रीजेनमारलभदास्य महाव्यम् टीपासमलतम् सगः १० (३४३
तल्पां चकार इति स्वाङ्कतल्पीचकार स्वोत्सङ्गे निवेशयति स्मेत्यर्थः । किंलक्षणं अज गंभीराम्भः स्थितं गंभीरं च तत् अम्भश्च गंभीराम्भः तस्मिन् स्थितं गंभीरजलेस्थितं किंकुर्वन् नूनं निश्चितं निशायां रात्रौ अन्तमध्ये गुञ्जन्मधुकरभिपात् गुञ्जन्तश्च ते मधुकराश्च भ्रमरास्तेषां मिषात् गुजारवकारिभ्रमरप्लात् मुद्रितास्य मुद्रितमास्यं मुखं यस्य तत् मुद्रितमुख सत् आकृष्टिमन्त्रं आकृष्टेमन्त्र जपत् ओकर्षणमंत्रस्य जापं कुर्वाणम् । पुनः प्रातः प्रभाते जातस्फुरणं जातं स्फुरणं यस्य तत् सञ्जातमन्त्रसिद्धि । अन्योऽपि साधको जले स्थित्वा मौनेन रात्रौ मन्त्र जपतीति भावः ॥ ८४ ॥
धरिः श्रीजयशेखर कविघटाकोटीरहीरच्छवि,
धम्मिल्लादिमहाकवित्वकलनाकल्लोलिनीसानुभाक् । पाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते,
सों जैनकुमारसंभवमहाकाव्ये दिशासङ्ख्यभाम् ॥१॥
इतिश्रीमदचकगच्छकविचक्रवतिश्रीजयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य तच्छिष्यश्रीधर्मशेखरमहोपाध्यायकृतायां टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां दशमसर्गव्याख्या
समाता ॥१०॥