Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 368
________________ ३४६) श्रीजैनकुमारसम्भवास्यं मन्यम् टीकासमलंकृतम् ॥ सर्गः ११ ( व्या० ) इन्दोः । कैरविणीकुमुदिनी या इन्दोः किरणैर्विकसति सा कैरविणी कुमुदिनीत्युच्यते । निशा जागरगौरवस्य निशायां रजन्यां जागरस्य गौरवं गुरुता तस्य व्याजात् सरस्सु सरोवरेषु सुखं यथा भवति तथा शिरये सुप्ता संकोचमाप्ता इत्यर्थः । किंलक्षणा कैरविणी इन्दोश्चन्द्रस्य सुधा श्राविकरोत्सवज्ञा सुधां श्रवन्तीति सुधाश्राविण ते च ते कराश्च तेषां अमृतश्राविणां किरणानां उत्सवं जानातीति सुधाश्राविकरोत्सवज्ञा । विज्ञातभान्यर्क करोपतापा भविष्यतीति भावी ( वत्स्थति गम्यादिः । ५ -३ - १ । इ. सू. भविष्यत्यर्थे भूधातो औणादिकोणिन् ।) स चासो अर्कश्च सूर्यः भाग्यर्कस्तस्य कराः तेषां भविष्यत्सूर्यकिरणानामुपतापः विज्ञात भाव्यर्ककरोपतापो यया सा ॥ ६ ॥ बद्धाञ्जलिः कोशमिषाद्गतेना, जातश्रियं पङ्कजिनीं दिनाप्त्या । जहास यत्तद्वयसने निशायां, कुमुद्वती तत् क्षमयांवभूव ॥ ७ ॥ ( व्या० ) बद्राञ्जलिः । कुमुद्वती कुमुदिनी निशायां रात्रौ यत् तद्वयसने तस्या' कमलिन्या व्यसने कष्टे सति जहास हसितवती विकसिता वा तत् क्षमयांबभूव । किंकृत्वा दिनापत्या दिनस्य आप्ति प्राप्तिस्तया दिवसप्राप्त्या पङ्कजिन कमलिनीं जातश्रियं जाता श्रीर्यस्याः सा ताम् । किंलक्षणा कुमुद्दती कोशमिषात् फोशस्य मुकुलस्य मिषात् बद्वाञ्जलिः बद्धः अञ्जलिर्यया सा योजितहस्ता ||७|| देहेन सेहे नलिनं यदिन्दु - पादोपघातं निशि तं चत्राम | पराभवं सूरकराभिषङ्गे, प्रगे हृदो निर्यदलिच्छलेन ॥ ८ ॥ ( व्या० ) देहेन इति । नलिनं कर्तृपदं कमलं निशि रात्रौ यत् इन्दुपादोपघातं इन्दोश्चन्द्रस्य पादाः किरणास्तेषां पादाश्चरणा वा तेषां उपघातः प्रहारस्तं देहेन शरीरेण सेहे । प्रगे प्रभाते सूरकराभिषङ्गे सूरस्य सूर्यस्य करो: किरणास्तेषामभिपट्टे सूर्यकिरणसंसर्गे हृदो हृदयात् निर्यदलिच्छलेन निर्यन्तश्चते अलयच भ्रमरास्तेषां मिपेण निर्गच्छ भ्रमरमिषेण तं पराभवं ववाम वमतिस्म ॥ ८ ॥ भित्त्वा तमः शैवलजालमंशु-मालिद्विपे स्फारकरे प्रविष्टे । आलीन पूर्वोऽपससार सद्यो, वियत्तडागादुडुनीडजौघः ॥ ९ ॥

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397