________________
३३६) श्री जैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः १०
शृण्वती धवलबंधबंधुरं, स्वामिवृत्तमुपगीतमन्यया । गाहकुंड नवकाधिकं सुधा - स्थानमास्यमिदमीयमेव सा ॥ ७१ ॥
( व्या० ) शृण्वती । सा सुमङ्गला इदमीयमेव अस्था इदं इदमीयमेव आस्य मुखं कुंडनवकाधिकं कुंडानां नवकात् अधिकं सुधास्थानं सुधाया अमृतस्य स्थानं तत् आहस्म प्रोक्तवती । किंकुर्वती सुमङ्गला घवलबंधबंधुरं धवलवास बंधश्च तेन बंधुरं ( वाश्य सिवासिमसिमध्यन्दि - रः । ४२३ । इ. उ. सू. बन्धराधातोः उरप्रत्यय 1 ) तत् मनोज्ञं धीरोद्रत १ धीरोदात्तरधीरललित ३ धीरोपशान्त ४ एतनायकगुणचतुष्करूप स्वामिवृत्तं स्वामिनो वृत्तं तत् श्रीऋषभदेवचरितं शृण्वती शृणोतीति शृण्वती ॥ ७२ ॥
साधितस्वरगुणा ऋजूभव - देहदंड तततुम्बकस्तनी । कापि नाथगुणगान लालसा, व्यर्थतां ननु निनाय वल्लकीम् ॥७२॥
( व्या० ) साधित इति । कापि स्त्री ननु निश्चितं वीणा विपंची नकुलोष्ठी किंनरी शततंत्री जया हस्तिका कुब्जिका कच्छपी घोषवती सारंगी उदुंबरी त्रिसरी ढिबरी परिवादिनी आलिचिणिप्रभृतिरूपवल्लकीं व्यर्थतां व्यर्थस्य भावो व्यर्थता तां निरर्थकतां निनाय । किंलक्षणा स्त्री नाथगुणगानलालसा नाथस्य श्रीऋषभदेवस्य गुणानां वंश १ विद्या २ विनय ३ विजय ४ विवेक ५ विचार ६ सदाचार ७ विस्तार ८ प्रभृतिषण्णवतिगुणानां गाने लालसा तत्परा । पुनः साधितस्वरगुणा साधिताः स्वरस्य गुणाः यथा सा । पक्षे साधितस्वरो गुणस्तन्त्री यस्याः सा । तद्यथा सप्तस्वरास्त्रयोग्रामा, मूर्च्छनास्त्वेकविंशतिः । ताना एकोनपञ्चाशत् इत्येतद्गोतलक्षणम् ॥ १॥ उद्गाहादौ नकारो न, मध्येयकार एव च ॥ अन्ते हकारो नो कार्यत्रयो गीतस्य वैरिणः ॥ २ ॥ नामाक्षरो यदुद्गाने भवेत्तत्र न संशयः । हकारो वा घकारो वा रेफोवापि कुलक्षयः ॥ ३ ॥ नकारे नष्टसर्वस्वं यकारे धातमेव च । हकारे हरति लक्ष्म तस्माद्गीतं न धारयेत् ॥ ४ ॥ हे नघनतरषभवर्णान् कवयः परिहृत्य कुरुत सुकवित्वमित्यादिदोषान् विचार्य सुस्वरे १ सुताले २ सुपदं ३ शुद्धं ४ ललितं ५ सुबद्धं ६ सुप्रमेयं ७ सुराङ्गना ८