Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 349
________________ श्रीजैन कुमारसम्भवाच्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३२७ हारि मातदिदमद्य निद्रया, स्वमवस्तु मम संमदास्पदम् । चत्प्रमादमवधूय रक्षितुं यामिकीभवत यूथमालयः ॥ ५२ ॥ 1 ( व्या० ) हारि इति । हे हलस्तित् तस्मात् कारणात् संमदास्पदं संभदस्य आस्पदं हर्षस्थानमिदं मम स्वप्नवस्तु स्वप्नस्य वस्तु निद्रया अथ मा हारि-माहार्यताम् । हे आलय. हला. तत् स्वप्नवस्तु प्रमादमवधूय त्यक्त्वा रक्षितुं यूयं यामिकीभवत आरक्षकीभवत ॥ ५२ ॥ स्वमवस्तु दयतेऽप्यगोचरं, दत्तमप्यहह हन्ति तामसी । संनिरुध्य नयनान्यचेतसां, चेष्टते जगति सा यदृच्छया || ५३ ॥ ( व्या० ) स्वप्न इति । सा तामसी तमोमयी रात्रि अचेतसां न विद्यते चेतो येषां ते तेषां पुरुषाणां नयनानि लोचनानि संनिरुध्य जगति विश्वे चेष्ट या रात्रि अगोचरं न गोचरं अगोचरमपि स्वप्नवस्तु स्वप्नस्य वस्तु यदृच्छया - स्वेच्छया दयते दत्ते । अहह इति खेदे दत्तमपि वस्तु हन्ति ॥ ५३ ॥ वासरे सरसिजस्य जाग्रतो, गर्भमन्दिरमुपेयुषीं श्रियम् । शर्वरीसमयलब्धविक्रमा, लुम्पतीयमनिमित्तवैरिणी ॥ ५४ ॥ ( व्या० ) वासरे इति । इयं निद्रा अनिमित्तवैरिणो न विद्यते निमितं यस्या' सा अनिमित्त। अनिमित्ता चासौ वैरिणी च निर्निमित्तवैरकारिणी वर्तते । या निद्रा शर्वरीसमयलब्धविक्रमा शर्वर्याः समये लब्धो विक्रमो यया सा रात्रिसमयलब्धपराक्रमा सती वासरे दिवसे जाग्रतः सरसिजस्य विकसितकमलस्य गर्भमन्दिरं गर्भस्य मन्दिरं तत् उपेयुष नपेयाय इति उपेयुर्थी ( वेयिवदनाखदनूचा - नम् । ५-२-३ । इ. स. उपेयिव करवन्तोनिपात । अधातूहदित । २४-२ । इ. सू स्त्रियां ङी । कसुष्मतौ च । २-१-१०५ । इ. सू. डीपरे - बस उ ।) तां गतवर्ती श्रियं लक्ष्मी लुम्पति ॥ ५४ ॥ सौ भुवनवञ्चनोत्सुका, स्वप्नराशिमपहृत्य तादृशम् । दास्यते किमपि गर्हितं तदा, पत्तने वमति लुण्डितास्मि हा ॥५५॥ ( ब्या० ) यदति । यदि असौ निद्रा भुवनवञ्चनोत्सुका भुवनस्य वञ्चने

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397