________________
श्रीजैन कुमारसम्भवाच्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३२७
हारि मातदिदमद्य निद्रया, स्वमवस्तु मम संमदास्पदम् । चत्प्रमादमवधूय रक्षितुं यामिकीभवत यूथमालयः ॥ ५२ ॥
1
( व्या० ) हारि इति । हे हलस्तित् तस्मात् कारणात् संमदास्पदं संभदस्य आस्पदं हर्षस्थानमिदं मम स्वप्नवस्तु स्वप्नस्य वस्तु निद्रया अथ मा हारि-माहार्यताम् । हे आलय. हला. तत् स्वप्नवस्तु प्रमादमवधूय त्यक्त्वा रक्षितुं यूयं यामिकीभवत आरक्षकीभवत ॥ ५२ ॥
स्वमवस्तु दयतेऽप्यगोचरं, दत्तमप्यहह हन्ति तामसी । संनिरुध्य नयनान्यचेतसां, चेष्टते जगति सा यदृच्छया || ५३ ॥
( व्या० ) स्वप्न इति । सा तामसी तमोमयी रात्रि अचेतसां न विद्यते चेतो येषां ते तेषां पुरुषाणां नयनानि लोचनानि संनिरुध्य जगति विश्वे चेष्ट या रात्रि अगोचरं न गोचरं अगोचरमपि स्वप्नवस्तु स्वप्नस्य वस्तु यदृच्छया - स्वेच्छया दयते दत्ते । अहह इति खेदे दत्तमपि वस्तु हन्ति ॥ ५३ ॥ वासरे सरसिजस्य जाग्रतो, गर्भमन्दिरमुपेयुषीं श्रियम् । शर्वरीसमयलब्धविक्रमा, लुम्पतीयमनिमित्तवैरिणी ॥ ५४ ॥
( व्या० ) वासरे इति । इयं निद्रा अनिमित्तवैरिणो न विद्यते निमितं यस्या' सा अनिमित्त। अनिमित्ता चासौ वैरिणी च निर्निमित्तवैरकारिणी वर्तते । या निद्रा शर्वरीसमयलब्धविक्रमा शर्वर्याः समये लब्धो विक्रमो यया सा रात्रिसमयलब्धपराक्रमा सती वासरे दिवसे जाग्रतः सरसिजस्य विकसितकमलस्य गर्भमन्दिरं गर्भस्य मन्दिरं तत् उपेयुष नपेयाय इति उपेयुर्थी ( वेयिवदनाखदनूचा - नम् । ५-२-३ । इ. स. उपेयिव करवन्तोनिपात । अधातूहदित । २४-२ । इ. सू स्त्रियां ङी । कसुष्मतौ च । २-१-१०५ । इ. सू. डीपरे - बस उ ।) तां गतवर्ती श्रियं लक्ष्मी लुम्पति ॥ ५४ ॥
सौ भुवनवञ्चनोत्सुका, स्वप्नराशिमपहृत्य तादृशम् । दास्यते किमपि गर्हितं तदा, पत्तने वमति लुण्डितास्मि हा ॥५५॥ ( ब्या० ) यदति । यदि असौ निद्रा भुवनवञ्चनोत्सुका भुवनस्य वञ्चने