________________
३२६) श्रीजेनफुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः १०
सू. भावे रमणीयशदात् अका।) तस्य गुणानां एक वास्तु स्थानं तस्य वातुन: अर्जनमुपार्जन जने लोके सुकरं सुखेन क्रियते इति सुकर सुलभमस्ति । पुनस्तस्य वस्तुनो भाविविप्लवनिवारणं भविष्यन्तीति भाविनः भाविनश्चते विप्लवाश्च नागास्तेपां निवारण मूरयो विद्वांसो दुष्करं दुखेन क्रियते इति दुष्करं (दुःस्तीपतः कृष्छाकृच्छ्रार्थान खल् । ५-३-१३९ । इ. म्. कृछार्थदु पूर्वकबातो. खल प्रत्ययः । ) दुर्लभं उान्ति कथयन्ति ॥ १९ ॥ अर्जिते न खलु नाशशङ्कया, क्लिश्यमानमनसस्तथा सुखम् । जायते हृदि यथा व्यथाभरो, नाशितेऽलसतया सुवस्तुनि ॥ ५० ॥
(व्या०) अर्जिने इति । हे हला. सुवस्तुनि शोभने वस्तुनि अर्जिते उपार्जिते सति खल निश्रितं पुरुषस्य तथा सुखं न जायते । यथा अलमतया अलसस्य भावोऽलसता तया सुवस्तुनि नाशिते सति व्यथाभगे व्यथायाः पीडाया भर समूहो जायते । किंविशिष्टस्य पुरुषस्य नाशशङ्कया नाशस्यशङ्का नाशङ्का तया क्लिश्यमानमनसः क्लिश्यते इति क्लिश्यमानं मनः यस्य स तस्य क्लिश्यमानमनस. पीडयमानमनस ॥ ५० ॥ दृष्टनष्टविभवेन वर्ण्यते, भाग्यवानिति सदैव दुर्विधः। जन्मतो विगतलोचनं जनं, प्राप्तलुप्तनयनः पनायति ।। ५१ ॥
(व्या०) दृष्ट इति । दृष्टनष्टविभवेन आदो दृष्ट पश्चान्नष्टः दृष्टनष्ट' (पूर्वकालैकसर्वजरत् पुराणनवकेवलम् । ३-१-९७ । इ सू दृष्टनष्ट इत्यत्र पूर्वकालेऽर्थे कर्मधारयसमास ।) दृष्टनष्टो विभवो यस्य तेन पुरुषेण सदैव दुर्विधः दरिद्रो भाग्यवान् भाग्यमस्यास्तीति भाग्यवानिति वय॑ते प्राप्त तनयनः आदो प्राप्ते पश्चात् लुप्ते नयने यस्य सः पुरुषो जन्मतो ( अहीयरुहोपादाने । ७२-८८ । इ. सू पञ्चम्यन्तात् जन्मन् शब्दात् तसुर्वा ।) जन्मन' इति जन्म यावत् विगते लोचने नेत्रे यस्य तं गतनेत्रं अन्धजनं पनायति । ( गुपौधूपविछिपणिपनेरायः । ३-४-१। इ. सू पन्धातो. स्वार्थे आयप्रत्यय ।) स्तवीति ।। ५१ ॥