SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीजनामारसम्ममा मान्यम् टीकासमलंकृतम् ॥ स. १० (३२५ प्रत्यकृतिनी प्रकृत्या अकृतिन्यस्ता (पभावेन भर्खा अस्मान् उपेक्ष्य देवदेवयदनात देवानां देवो देवदेवः श्रीपभदेवस्तस्य वदनं तस्मात् अनाकुलं यथा भवति तथा स्वप्नमृमृतफल स्वप्नानां सूनृतं सत्यं फलं व्यबुध्यथाः ज्ञातवती ४६ नाथवा विधुवाकरोभित-स्त्वत्प्रमोदजलधिः सदैधताम् । एबमालपितमालिभिर्वचः, शुश्रुवे श्रुतिमहोत्सवस्तया ॥ ४७ ॥ (व्या०) नाथ इति । हे स्वामिनि त्वन्प्रमोद जलधिः तब प्रमोद एवं जलधि त्वदीयहर्पसमुद्रः सदा निरतामेधतांवृद्धिं यातु । किंलक्षण प्रमोदजल. धि:-नाथचक्त्रविधुवावरोंभित नाथस्य स्वामिनो वक्त्रं मुखं तदेव विधुश्चन्द्रस्तस्य वाग्भिरेव करै किरणे उम्भितः पूरित । आलिभि सखीभिरेवं आलपितं कथितं यस्तया सुमङ्गलया शुश्रुवे श्रुतम् । किंलक्षणं चच. श्रुतिमहोत्सव महांश्चासौ उत्सवश्च महोत्सव श्रुत्योः कर्णयोमहोत्सवः महोत्सवरूपम् ॥ ४७॥ वाग्मिषादथ सुमङ्गला गला-यातहन्नदजसंमदामृता । आदिशद्दशनदीधितिस्फुटी-भूतमुज्ज्वलमुखी सखीगणम् ॥४८॥ (व्या०) वागिति । अथानन्तरं सुमङ्गला सखोगणं सखीनां गण. सखीगणरतं सखीसमूहमादिशत् । किंलक्षणा सुमङ्गला वाग्मिघात वाचो मिषात गलायातहनदजसमदामृता ले आयातमागतं हृदेव नदस्तस्माजात. संमदो (संमदप्रमदो हर्षे । ५.-३-३३ । इ -सू संपूर्वकमद्धातो. अलन्तो निपात ।) हर्ष एव अमृतं गलायातं हृन्नद जसंमदामृतं यस्या सा । पुन उज्ज्वलं मुख यस्या. सा उज्वलमुखो । ( नखमुखादनानि । २-४-४० ॥ इ सू स्त्रियां उज्ज्वलशब्दपूर्वकमुखशब्दात् डीर्वा) किलक्षणं सखीगणं दशनदीधितिस्फुट दशनानां दन्तानां दीधितय किरणा ते स्फुटीभूतः प्रकटीभूतस्तम् ॥ ४८ ॥ समणीयकगुणैकवास्तुनो, वस्तुनः सुकरमर्जनं जने । भावि विप्लवनिवारणं पुन हास्य दुष्करमुशन्ति सूरयः ॥ ४९ ।। (व्या०) रामणीयक इति । हे हला रामणीयकगुणैकवास्तुन रमणीयस्य भावो रामणीयक ( योपान्याद् गुरूपोत्तमादसुप्रख्यादकम् । ७-१-७२ । इ.
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy