________________
३२४) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥सर्ग:१०
(व्या०) स्वप्न इति । सा सुमङ्गला आसनगतासु आसनं गता आस- ' नगतास्तासु सखीपु उपाभरे उषाया भरतस्तस्मिन् रात्रिमध्यभागे स्वप्नवीक्षणमुखां वनानां वीक्षणं मुखं प्रमुख यस्याः सा तां स्वप्नावलोकनप्रमुखां भर्तके
मगतिहेतुदां भर्तुः स्वामिनोवेश्मगृहं तत्र गतिः तस्याः हेतुं ददातीति तां प्रियगृहगमनदायिनी कथां विस्तृतश्रोत्रपात्रपरमामृतं विस्तृतानि यानि श्रोत्राण्येक पात्राणि तेषु परमममृतं परमामृतसमानां व्यधात् कृतवती ॥ ४३ ॥ तोषविस्मयभवः सखीमुखा-दुद्ययौ कलकल: स कश्चन । अन्तरालयकुलायशायिभि-यन जागरितमण्डजैरपि ॥ ४४ ॥
(व्या०) तोष इति । तोषविस्मयभवः तोषश्च विस्मयश्च तोषविस्मयोताभ्यां भवः हर्षविस्मयोत्पन्न सखीमुखात सखीनां मुखं तस्मात् स कश्चन फलफलकोलाहल: उद्ययौ उदयं प्रातः । येन कलकलेन अन्तरालयकुलायशायिभिः अन्तरं च तत् आल्यं च अन्तरालयं तस्मिन् गृहमध्ये कुलायो नीडस्तस्मिन् शेरते इति अन्तरालयकुलायशायिनस्तैः गृहमध्यनीडशयनशीलैः अण्डजैरपि अण्डात् जाता अण्डजाः पक्षिणस्तैरपि पक्षिभिरपि जागरितं जागर्यते स्म ॥ ४४ ॥ स्वममेकमपि सालसेक्षणा, कि विचारयितुभीश्वरीदृशम् । उल्लसत्तमसि यन्मनोगृहे, संचरन्त्यपि बिभेति भारती ।। ४२॥
(व्या०) स्वामिति । सा जलसेलणा अलसे ईक्षणे यस्याः सा स्त्री ईश (प्नभेकमपि विचारयितुमीश्वरी (अश्नोतेरीचादेः । ४४२ । इ. उ. सू. अशधातोरट् प्रत्यय आदेरस्य ई. टित्वात् डीः । ) समर्था वर्तते अपि तु नैव । यन्मनो गृहे यस्था मन एव गृहं तस्मिन् भारती सरस्वती संचरती अपि संचरतीति संचरन्त्यपि बिभेति । किविशिष्टे यन्मनो गृहे उल्लसत्तमसि उल्लसत् तमः अज्ञानरूपान्धकार यस्मिन् तत् तस्मिन् ॥ ४५ ॥ वर्णयम तव देवि कौशलं, यत्प्रकृत्य कृतिनीरुपेक्ष्य नः । देवदेववदनादनाकुलं, स्वमसूतफलं व्यबुध्यथाः ॥ ४६॥
(व्या०) वर्णयेम इति । हे देवि वयं तव कौशल वर्णयेम । यत् त्वं