Book Title: Jain Kumar Sambhavakhyam
Author(s): Jayshekharsuri
Publisher: Acharyarakshit Pustakoddhar Sanstha

View full book text
Previous | Next

Page 354
________________ ३३२) श्रीजेनकुमारसम्भवाल्य महापाव्यम् टीकासमलंकृतम्॥ सर्गः१० दुद्भवस्य अभावः । यथा वन्ध्यायाः पुत्राभावदूषणं तथात्रापि तदुद्भवाभावदूषणं लुप्तमिति भावः । रागोध्वनिः तदुद्भपाश्च मच्छना ज्ञेयाः ॥ इति बौद्धमतम् ॥ तस्वषोडशकतोऽधिकं व गीततत्वमपनीतनिर्वति। व्यञ्जतीह विधिनाच्युते न का-प्यक्षपादमतमन्यथाकृत ॥ ६४ ॥ (व्या०) तत्त्व इति । कापि स्त्री अक्षपादमतं अक्षपादस्य मतं तत् अन्यथा अकृत वैपरीत्येन करोतिस्म । नैयायिकमते हि प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त सिद्धान्त अवयव तक निर्णयवादजल्पवितंडा हेत्वाभास छलजातिनिनहस्थानानि षोडश तत्वानि सृष्टिसंहारकर्ता मोक्षदो देवो महेश । एवं च सति वैपरीत्यं कथ्यते । किं कुर्वती कापि स्त्री तत्वषोडशकतः तत्वानां षोडशकतः अधिकं स्वकीयं गीतं व्यञ्जयन्ती प्रकटयन्ती। किविशिष्टं गीतं अच्युतेन अस्पतितेन विधिना उपनीता निर्वतिः समाधियेन तत्। वैपरीत्यपक्षे घोडशतत्वेभ्योऽधिकं सप्तदर्श तत्वं कथयति । अच्युतेन कृष्णेन विधिना ब्रह्मणा उपनीता ढौकिता निर्वतिर्मोमो यत्र एवं वैपरीत्यं ज्ञेयम् ॥ ६४ ॥ इति नैयायिकमतम् । विश्रुतस्वरगुणश्रुतेः परं, या प्रपञ्चमखिलं मृषादिशत् । ' मूर्च्छनासमयसंकुचदृशां, सा न कि परमहंसतां गता ॥ ६५ ॥ (व्या०) विश्रुत इति । सा स्त्री किं सतां परमहं परं च तत् महश्च तत् अष्टोत्सवं न गता अपि तु गता प्राप्ता । अथवा परमहंसतां परमहंसस्य भावः परमहंसता तां मीमांसकभेदं न ता अपि तु गतैव । यत- 'चत्वारो भगवद्भेदाः फुटीचरपदको । हंस. परमहंसश्चाधिकोऽभीषु पर• परः' ॥१॥ एके मीमांसका भा: एके प्राभाकराः । भट्टानां षट् प्रमाणानि प्राभाकराणां पञ्च प्रमाणानि । भ। प्राभाकरा कर्ममीमांसका वेदवादिनः परे च वेदान्तब्रह्ममीमांसकोः इत्यादि मीमांसकमतस्वरूपं ज्ञेयम् । अथ काल्यार्थः कथ्यते या सतां परमहंगता सा किंविशिष्टा वर्तते । या स्त्री मर्छनासमये संकुचन्त्यो दृशौ येषां ते मूछनासमयसंकुचदृशस्तेपां विश्रुतस्वरगुणयुतेः विश्रुता विख्याता ये स्वराः सारिंगमपधनीरूपाः मन्द्रमध्यमतराः तेपा गुणा माधुर्यादय. सङ्गीतोक्तास्तेषां श्रुतेः श्रवणात्

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397