________________
३३२) श्रीजेनकुमारसम्भवाल्य महापाव्यम् टीकासमलंकृतम्॥ सर्गः१०
दुद्भवस्य अभावः । यथा वन्ध्यायाः पुत्राभावदूषणं तथात्रापि तदुद्भवाभावदूषणं लुप्तमिति भावः । रागोध्वनिः तदुद्भपाश्च मच्छना ज्ञेयाः ॥ इति बौद्धमतम् ॥ तस्वषोडशकतोऽधिकं व गीततत्वमपनीतनिर्वति। व्यञ्जतीह विधिनाच्युते न का-प्यक्षपादमतमन्यथाकृत ॥ ६४ ॥
(व्या०) तत्त्व इति । कापि स्त्री अक्षपादमतं अक्षपादस्य मतं तत् अन्यथा अकृत वैपरीत्येन करोतिस्म । नैयायिकमते हि प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्त सिद्धान्त अवयव तक निर्णयवादजल्पवितंडा हेत्वाभास छलजातिनिनहस्थानानि षोडश तत्वानि सृष्टिसंहारकर्ता मोक्षदो देवो महेश । एवं च सति वैपरीत्यं कथ्यते । किं कुर्वती कापि स्त्री तत्वषोडशकतः तत्वानां षोडशकतः अधिकं स्वकीयं गीतं व्यञ्जयन्ती प्रकटयन्ती। किविशिष्टं गीतं अच्युतेन अस्पतितेन विधिना उपनीता निर्वतिः समाधियेन तत्। वैपरीत्यपक्षे घोडशतत्वेभ्योऽधिकं सप्तदर्श तत्वं कथयति । अच्युतेन कृष्णेन विधिना ब्रह्मणा उपनीता ढौकिता निर्वतिर्मोमो यत्र एवं वैपरीत्यं ज्ञेयम् ॥ ६४ ॥ इति नैयायिकमतम् । विश्रुतस्वरगुणश्रुतेः परं, या प्रपञ्चमखिलं मृषादिशत् । ' मूर्च्छनासमयसंकुचदृशां, सा न कि परमहंसतां गता ॥ ६५ ॥
(व्या०) विश्रुत इति । सा स्त्री किं सतां परमहं परं च तत् महश्च तत् अष्टोत्सवं न गता अपि तु गता प्राप्ता । अथवा परमहंसतां परमहंसस्य भावः परमहंसता तां मीमांसकभेदं न ता अपि तु गतैव । यत- 'चत्वारो भगवद्भेदाः फुटीचरपदको । हंस. परमहंसश्चाधिकोऽभीषु पर• परः' ॥१॥ एके मीमांसका भा: एके प्राभाकराः । भट्टानां षट् प्रमाणानि प्राभाकराणां पञ्च प्रमाणानि । भ। प्राभाकरा कर्ममीमांसका वेदवादिनः परे च वेदान्तब्रह्ममीमांसकोः इत्यादि मीमांसकमतस्वरूपं ज्ञेयम् । अथ काल्यार्थः कथ्यते या सतां परमहंगता सा किंविशिष्टा वर्तते । या स्त्री मर्छनासमये संकुचन्त्यो दृशौ येषां ते मूछनासमयसंकुचदृशस्तेपां विश्रुतस्वरगुणयुतेः विश्रुता विख्याता ये स्वराः सारिंगमपधनीरूपाः मन्द्रमध्यमतराः तेपा गुणा माधुर्यादय. सङ्गीतोक्तास्तेषां श्रुतेः श्रवणात्