________________
શ્રીગૅનન્નુમા લક્ષ્મવાસ્થ્ય મદાિગ્યમ્ ટીજાલમહંતમ્ ॥ સર્વઃ ૬૦ (૩૨ प्रकृतिः स्वभावो यस्याः सा सद्गुणप्रकृतिः । उत्प्रेक्षते कापिलमताश्रयादिव कपिलेन प्रोक्तं कापिलं ( तेन प्रोक्ते । ६-३-१८१ । इ. सू. कपिलशब्दात् प्रोक्तेऽर्थे अणू णित्वात् आदिस्वरवृद्धिः । ) कापिलं च तत् मतं च तस्य आश्रयात् इव या कापिलमतं सांख्यमतं आश्रयति सापि एवंविधा सांख्यमते सत्व- रजस्तमोलक्षणास्त्रयो गुणा सत्त्वरजस्तमोगुणानां साम्यावस्था प्रकृति प्रधानापपर्याया उच्यते । सैव सर्वे व्यापारं प्रपञ्चयति । आत्मा तु साक्षिमात्रं । अकर्ता अभोक्ता निर्गुणः आत्मा कपिलदर्शने इति वचनात् । सद्गुणा विद्यमानसत्वरजस्तमोक्षणा गुणाः प्रकृति प्रधानम् । रङ्गस्य हर्षस्य योग्यानां करणानामिन्द्रियाणां ओघ समूहस्तस्य लीलया चापलं चपलत्वं प्राप । यथा प्रकृतेर्महान् महतोऽहंकार अहंकारात् पश्चेद्रियाणि इत्यादि क सति तदा तस्मिन्नवसरे आत्मनि - साक्षितां अकर्तृत्वात् साक्षिमात्र प्राप्ते सति । यथा नृपे सभायां निविष्टे विलो - यति सति नृत्यकी नृत्यं करोति तथा अत्रापि ज्ञेयम् ॥ इति सांख्यमतम् । तां विधाय शुचिरागसंभव-मूर्च्छनाभिरुपनीतमूच्र्छनाए । सौगतं ध्वनिगतं तदुद्भवा - भावदूषणमलुप्त काचन ।। ६३ ।।
( व्या०) तामिति । काचन स्त्री सौगतं ( तेन प्रोक्ते । ६-३--१८१ । -इ. सू. सुगतशब्दात् प्रोक्तेऽर्थे अण् णित्त्वात् वृद्धि । ) सुगतप्रणीतं ध्वनिगतं शब्दगतं तदुद्भवाभावदूषणं तस्मात् उद्भवति इति अस्य अभावः स एव दूषणं तत् अलुप्त लुम्पतिस्म । किंकृत्वा शुचिरागसंभवन्मूर्च्छनाभिः शुचिः पवित्रो यो रामः श्रीरागादिः तस्मात् संभवन्तीभिरेकविंशतिमूर्च्छनाभिः तां सुमङ्गलां उपनीतमूर्च्छनां उपनीता मूर्च्छना यस्था सा तां प्राप्तमोहां विधाय कृत्वा । तथा च चौद्धमते सुगतो देवः क्षणक्षयिकं च विश्वं क्षणक्षयत्वात् अमुकममुकादुत्पद्यते इति न वक्तव्यम् । यतो यो यत्रैव स तत्रैव च यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते । यदि रागात् संभवन्तीभिर्मूर्च्छनाभिस्तस्याः सुमङ्गलाया मूर्च्छना जाता तदा रागस्य क्षणक्षयत्वं नास्ति । यदि रागः क्षयी स्यात् तदा ततो मूर्च्छना कथमुत्पद्यते । अत: कारणात् ध्वनेः शब्दस्य तस्मा