________________
३३०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् । सर्गः १०
(व्या०) सुश्रुत इति । कापि सखी नृत्यनिरता नृत्ये निरता सती स्वमात्मानं आहेत (देवता । ६-२-१०१ । इ. सू. देवता अर्थे अर्हत् शब्दात् अण् प्रत्ययः । ) जैनं जगौ । किविशिष्टा सखी सुश्रुताक्षरपथानुसारिणी सुष्टु अत्यर्थं श्रुतः कर्णगोचरीकृत अक्षराणां पन्थाः अक्षरपथो (ऋक् पू: पथ्यपोऽत् । ७-३-३६ । इ. सू. अक्षरपूर्वकपथिन् शदात् अत् समासान्तः ।) वर्णमार्गस्तमनुसरतीत्येवंशीला । याग गीतं वाचं तादृग् नृत्यमपि स्यात् । पुन' ज्ञातसंमतकृताङ्गिकक्रिया आदौ ज्ञाता पश्चात् संमता इति ज्ञातसमता ( पूर्वकालैकसर्वनरत् पुराणनवकेवलम् । ३-१-९७ । इ. सू. ज्ञातसमता इत्यत्र पूर्वकाले कर्मधारयः ।) आदौ ज्ञातसंमता पश्चात् कृता आङ्गिकी अङ्गसंबंधिनी क्रिया यया सा। पूर्व गीतवाचस्वरूपं ज्ञातं पश्चात् सभ्यगवयुद्धं तदनुमानेन अङ्गसंबंधिनी क्रिया कृतेति भावः। पुन आत्मकर्मकलनापटुः आत्मनः कर्मणो नृत्यरूपकर्मगः कलनायां कर्तव्ये पटुः पतिष्ठा या आर्हती भवति सा तु एवंविधा सुष्टु शोभनं श्रुतं सिद्धान्तस्तेन अक्षरपथं मोक्षमाग अनुसरतीत्येवंशीला । ज्ञाता सम्याजानेन समता सम्यकदर्शनेन कृता सम्यक्चरित्रेण आङ्गिकी द्वादशाहसंबंविनी क्रिया यया सा । आत्मा च जीवः कर्माणि च तेषां कलनायां पटुः । इति जैनम् । सद्गुणप्रकृतिराप चापलं, कापि कापिलमताश्रयादिव । रङ्गयोग्यकरणौधलीलया, साक्षितामुपगते तदात्मनि ॥ ६२ ।।
(व्या०) सदिति । कापि सखी तदात्मनि तस्याः आत्मा तस्मिन् साक्षिता ( साक्षादृष्टा । ७-१-१९७ । इ. सू. साक्षात् इति अव्ययात् द्रष्टा इत्यर्थे इन् प्रत्ययः । प्रायोऽव्ययस्य । ७-४-६५ । इ. सू. साक्षात् इत्यत्र अन्त्यस्वरादेलुक् । साक्षात् द्रष्टा इति साक्षी साक्षिणोभावः साक्षिता ताम् ) सम्यक्परिज्ञानतया साक्षित्वं उपगते प्राप्ते सति । रङ्गयोग्यकरणोधलीलया रङ्गो रङ्गभूमिस्तस्मिन् योग्यानां करणानां उत्पतमपतनादिकानां ओघः समूहस्तस्य लीलया चापलं चपलस्य भावश्चापलं तत् चपलपं आप प्राप । किंविशिष्टा सखी सद्गुणप्रकृतिः सन्तो गुणा विनयादिगुणा यस्यां सा सद्गुणा प्रधानविनयादिगुणा