________________
श्रीजैनकुमारसम्भधाख्यं महाकाव्यम् टीकासमर्मतम् ॥ सर्गः १० (३२९
५-२-७९ । इ. सू. शीलादिसदर्थे कम्पधातो.रप्रत्ययः ।) मानसं यस्याः सा तां मां सरसोक्तियुक्तिभि रसेन सह वर्तन्ते इति सरसाः ताश्च ता उत्तयश्च तासां युक्तयस्ताभिर्विबोध्य जागरयित्वा ।। ५८ ॥ . . ।। एवमृचुषि विभोः परिग्रहे, विग्रहे धनरुचिः सखीगणः । धर्मधामगुणगीर्णवाक्शरा-सारमारभतमारभङ्गिवित् ॥ ५९॥
(०या०) एवमिति । सखीगणः सखीनां गणः सखीसमूहः धर्मधामगुणगीर्णवाक्शरासार धर्मः पुण्यं धनुर्वा धाम स्थानं येषां ते धर्मधामानः एवंविधा ये गुणा विनयादयः प्रत्यश्चा वा तेभ्यो गोर्णा निसृता वाच एव शराः तेषामासारं वेगवदृष्टिमारभत । क सति विभोः स्वामिनः परिग्रहे कलने एवं पूर्वोक्तप्रकारेण ऊषि उवाच इति ऊचिवान् तस्मिन् उक्तवति । किविशिष्टः सखीगण विग्रहे घनरुचिः घना रुचिः कान्तिर्यस्य सः बहुकान्ति• पक्षे विभहे युद्ध घनाभिलाषः। पुन: मारभझिवित् भार. कंदर्षस्तस्य भाङ्गिं विच्छित्ति वेत्तीति ॥ ५९ ॥ प्रागपि प्रचुग्केलिकौतुकी, सोऽदसीयवचसाऽभृशायत । नीरनाडियुजि किं न वाक्पता-वेति वृष्टिधनतां घनाघनः ॥६०॥
(व्या०) प्रागिति । स सखोगणः अदसीयवचसा अमुष्या इदं अदसीय च तत् वचश्च तेन अमुष्या. सुमङ्गलाया वचनेन अभृशायत ( प्यर्थे भृशादेः स्तोः ३-४-२९ । इ. सू. घ्यर्थे भृशशब्दात् वा क्यड् ।) प्रगल्भो बभूव । किलक्षणः सखीगण प्रागपि अग्रेऽपि प्रचुरकेलिकौतुकी बहुक्रीडाविषये कौतुकवान् । नीरनाडियुजि नीरस्य नाड्या युज्यते तस्मिन् जलनाडियुक्ते वापतौ वाचां पतिः तस्मिन् बृहस्पती धनाधनो (चराचर चलाचल पतापत वदावद - धनाधन पाटू पटं वा । ४-१-१३ । इ सू. घनाघनशब्दो निपातः 1) मेघः वृष्टिधनतां वृष्ट्यायुक्तोधनस्तस्य भावो वृष्टिघनता तां कि न एति न याति अपि "तु यान्येव ॥ ६० ॥ सुश्रुताक्षरपथानुसारिणी, ज्ञातसंमतकृताङ्गिकक्रिया । आत्मकर्मकलनापटुर्जगी, कापि नृत्यनिरता स्त्रमार्हतम् ॥ ६१ ॥