________________
श्रीजैनकुमारसम्भवाय महाकाव्यम् टीपासमलंकृतम् ॥ सर्गः १० (३३३ परमन्यमखिलं समरतं प्रपञ्च देवतादिपोरुपेयशास्त्रादिविस्ताररूपं मृषा अलीकं आदिशत् । गीतश्रोतार(तल्लयलीनत्वेन गीतमेव शुश्रुवु इति भावार्थः । परमहंसातिपक्षे या स्त्री विश्रुता विख्यातो. रबरा उदात्तानुदातत्वरितरूपा. वेदोच्चारविशेषा गुणा वेदोक्ता | कारिरी निर्वपेत् वृष्टिकामः अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादिका यस्याः सा एवंविधा श्रुतिर्वेदस्तस्या परमन्यं अखिलं प्रपञ्च देवतादिपौरुयेयशास्त्रादिविस्ताररूपं मृषा अलोकं आदिशत् । तेषां मते वेदानामेव तत्वरूपत्वात् । तन्मते देवता अपि मंत्रमय्यो मन्यन्ते ।। ६५ ॥ इति मीमांसकमतम् ।
आत्मनः परभवप्रसाधना-भासुरामिषनिषेधिनैपुणा । गीःपतेर्मतमतीन्द्रियार्थवि-तत्र काचिदुचितं व्यधाद् वृथा ॥६६॥
(व्या०) आत्मन इति । काचित् स्त्री गी पतेश्चार्वाकस्य मतं तत्र सुमङ्गलाने उचितं वृथा निप्फलं व्यधात् कृतवती । चार्वाकमते इन्द्रियार्था एव बहु मन्यन्ते । अणुन्न भोयणं सुच्चा इत्यादिवचनात् । पिब खादं च चारुलोचने, यदतीतं वरगात्रि तन्न ते । नहि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥१॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचर । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुता ॥२॥ इत्याद्यागमः तन्मते चात्मन परभवो न मन्यते । इत्यादियुतं चार्वाकमतम् । सा एवंविधं तन्मतं निराकार्षीत् । सा कथंभूता आत्मनः परभवप्रसाधनाभासुरा आत्मनः स्वस्य परेभ्यो भवा स्नानशीर्षग्रथनादिसंभवा प्रसाधना अलङ्करणं तया भासुरा (भञ्जिमासिमिदो धुरः । ५-२-७४ । इ. सू शीलादिसदर्थे भास्थातोः धु(प्रत्यय ।) देदीप्यमाना । पुनश्चमिषनिषेधिनैपुणा मिषं दम्भस्तस्य निपेधि निपेवकारकं नैपुणं चातुर्य यस्या सा । पुन. अतीन्द्रियार्थवित् इन्द्रियमतिकान्ता अतीन्द्रिया (प्रात्यवपरिनिरादयो गतकान्तकुष्टग्लानक्रान्ताद्यर्था प्रथमीचन्तः । ३-१-४७ । इ. सू कान्ताद्यर्थे द्वितीयातत्पुरुष । ) ते च ते अर्थाश्च तान् स्वर्गनरकीपसमुद्रकर्मजीवादिपदार्थान् वेत्तीति अतीन्द्रियार्थवित् । (डत्युकं कृता । ३-१-४९ । इ. सू. नित्य तत्पुरुषः । ) सम्बो लोगालोगो सज्झायचियरस पचक्खे इत्यागमात् । चार्वाकमतनिराकरणपक्षे तु सा कथंभूता