________________
રૂફ) અનિમા સમવાયાં મધ્યમ રીલિમાંતમ
૨૦
आत्मनो जीवस्य परभवस्य स्वर्गनरकादिरूपस्य प्रसाधनं स्थापनं तेन आभातीति परभवप्रसाधनाभा । पुनः कथंभूता सा सुरामिषनिषेधिनैपुणा सुरा च मदिरा
आमिषं च मांसं सुरामिषेतयोनिधि नैपुणं यस्याः सा एतेन पिव खाद चारुलोचने यदतीतं वरगात्रि तन्न ते । नहि भीरु गतं निवर्तते समुदयमात्रमिदं कलेइत्यादिवचनं निराकृतम् । अतीन्द्रियार्थवित् अतिक्रान्तानि इन्द्रियाणि येन स एवंविधो यो धर्मार्थकाममोक्षेषु सार इन्द्रियाद्धिरसरहितो धर्मस्तं वेत्ति इति । तत्र धर्मे निपुणा ॥ ६६ ॥ इति चार्वाकमतम् । तां प्रवीणहृदयोपवीणयं-त्येकतानमनसं पुरः परा। ममे सरख चल्लकी-दण्डमेव मृदुभास्वरस्वरा ॥ ६७॥
(व्या०) तामिति । प्रवीणहृदया प्रवीणं कुशलं हृदयं यस्याः सा पर अन्या स्त्री स्ववठकीदण्डमेव स्वस्थाः वल्लक्या दंडस्तमेव आत्मीयवाणासाकदण्डमेव खरवं खर.रवो वस्य तं कठोर शब्द निर्ममे चकार । किं कुर्वती पुरोऽग्रे एकतानमानसं एकतानं मनो यस्याः सा तां एकचित्तां सुमङ्गला उपवीणयन्ती वीणया गायन्ती। किंलक्षणा मृदुमास्वरस्वरा मृदुश्चासौभास्वरश्च मृदुभास्वर. (स्थेशभासपिसकसोवरः । ५-२-८१ । इ. सू. शीलादिसदर्थे भास्धातोर्वरप्रत्ययः ।) सुकुमालदेदीप्यमानः स्वरो यस्याः सा मृदुभास्वरस्वरा ॥ ६७ ॥ अन्यया ऋषभदेवसद्गुण-धामगानपरया रयागता । लभ्यते लघु तामुपासितुं, किन किन्नरवधूः स्वशिष्यताम् ॥६८॥
(०या०) अन्यया इति । अन्यथा लिया किनरवधू. किनरस्य वधूर्भार्या स्वशिष्यतां स्वस्यात्मनः शिष्यस्य भावस्ता आत्मीय छात्रत्वं किं न लभ्यते (स्मे च वर्तमाना । ५-२-१६ । इ. सू. स्मयोगे लभ्धातोः भतेऽर्थे वर्तमाना।) स्म न प्रापिता अपि तु प्रापितव । किंविशिष्टा किलरवधः लघु शीघ्रं तां सुमसला उपासितुं सेवितुं रयागता रयेण वेगेन आगता । किंविशिष्टया अन्यया ऋषभदेवसद्गुणग्राममानपरया सन्तश्वते गुणाश्च सद्गुणाः ऋषभदेवस्य सद्गुणाः कुलीन १ शीलवंत २ वयस्थ ३ शौचन ४ सततव्यय ५ प्रीतिवंत ६ सुराग ७