SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ श्रीजैनमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (३०१ सिवे । इदमिति किं इमानि मयैव जातानि मयैव वर्धितानि रमानिवासतां निवासस्य भावो निवासता रमाया निवासता तां लक्ष्म्यावासत्पम् । च अन्यत् माद्यन्मवुपै. (आतोडोऽद्वावामः । ५-१-७६ । इ सू. मधुशब्दपूर्वकपाधातोः डः प्रत्ययः डित्वात् आलोप ।) माधन्तश्च ते मधुपाश्च तैः मत्तभ्रमरैमद्यपैर्वा सड्गतिभवाप्य मम अवाड्मुखीभूय अवाड्मुखं येषां तानि अवाड्मुखानि अवाड्मुखानि भूत्वा अवतस्थिरे । हे विश्वाधिप विश्वानामविपः तस्य संबोधनं हे विश्वाधिप हे चक्रवर्तिन् प्रशाधि (शासऽसहनः शाध्येधिजाह । ४-२-८४ । इ. सू. शास्धातोः यन्तस्य निपात ।) शिक्षां देहि । अहं किं करोमि त्वं मूढजनानुशसने मूढाश्वते जनाश्च तेषामनुशासनं तस्मिन् मूर्खजनशिक्षणे ईशिषे समर्थो भवसि ॥ ६० ॥ ६१ ॥ युग्मम् । निमालनानीरनिधेरधीश्वरः, सरस्वतीनां रसपूर्तिसंस्पृशाम् । अलब्धमध्योऽर्थिनिराश्रितो धनैः, सुतस्तवात्येष्यति न स्वधारणाम् ६२ (०या०) निभालनमिति । हे प्रिये नीरनिधेः नीराणां जलानां निधिः तस्य समुद्रस्य निभालनात् दर्शनात् । रसपूर्तिसंस्पृशाम् रसानां शृङ्गारादीनां पूर्ति (स्त्रियां क्ति । ५-३-९१ । इ. सू. धातो. स्त्रियां भावे तिः । ओष्ठ्यादुर् । ४-४-११७ । इ. सू. तो परेपृधातोः ऋकारस्य उर । भ्वादेमिनो दीर्वोयञ्जने । २-१-६३ । इ सू. उकारस्य दीर्घः । ) पूरणं पक्षे रसस्य जलप्य पूर्ति. पूरणं तां संस्पृशन्ति इति रसपूर्तिसंस्पृश-(स्पृशोऽनुदकात् । ५-१-१४९ । इ. सू रसपूर्तिपूर्वकसंस्पृशधातो. कि प्रत्ययः ।) स्तासां सरस्वतीनां वाणीनां नदीनां च अधीश्वर स्वामी । अलब्धमध्य अलब्धं मध्यं यस्य स. गंभीर. । घनैर्बहुभिरर्थिभिर्याचकैः पक्षे घर्नेमै धैराश्रितः एवंविवस्तव सुत. स्वधारणां स्वस्यधारणा तां निजमर्यादा न अत्येष्यति न अतिक्रमिष्यति ॥१२॥ प्रचेतसापि स्फुटपाशपाणिना, कृपाणिना मध्यशयेन जिष्णुना । न राजनीतेः किल कुलमुद्जो, न्यवारि मात्स्यः समयो भवन्मयि ६३ धरातलं धन्यमिदं त्वयि प्रभो, न यन्नयव्यत्ययदोषमाप्स्यति । इति स्ववीचिध्वनितैरिवस्तुवन् , किमाविरासीत्पुरतोऽस्य वारिधिः ६४
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy