________________
३००) श्रीजनकुमारसमाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग.९
चालनास्ता. दंडयुक्तचापरिचालनमनुभय वह्नौ अग्नौ विवेश प्रविष्टः । ततस्तस्मात् कारणात् हे कृतज्ञ चतुर मदत्तजलै मया दत्त लैः चत्रिपदाभिसेचनं चक्रिणः चक्रवर्तिनः पदस्य पदव्याः अभिषेचनं अभिषेक त्वया प्रतीप्य. तामड्गीक्रियताम् ॥ ५७ ॥ ५८ ॥ युग्मम् । सर: सरोजाक्षि यदैक्षि तेन ते, सुतः सतोषैः सवयोभिराश्रितः। प्रफुल्लपोपगतो घनागौ-रसं रसं धास्थति साधुपालियुक् ।। ५९।।
(व्या०) सरः इति । हे सरोजाक्षि सरसि जाते सरोजे कमले तद्वत् अक्षिणी यस्याः सा सरोजाक्षी तस्याः संबोधनं हेसरोजाक्षि कमललोचने त्वया यत् सरः सरोवरं ऐक्षि (ईवातो. कर्मणि अवतनो । ) दृष्टम् । तेन कारणेन ते तव सुतः सरोवररस पानीय शगारादिरस वा धास्यति धरिष्यति कथभूतस्तव सुतः सरोवरं च सतोषैः (सहस्तेन । ३-१-२४ । इ. सू बहुव्रीहिसमासः । सहस्य सोऽन्यार्थे । ३-२-१४३ । इ. सू सहस्य सो वादेश ) तोपेण सह वर्तन्ते इति सतोषास्तै सहर्षे. सवयोभिः समानं वयो येषां ते सवयस तैः सवयोभिः ( एकार्थ चानक च । ३-१-२२ । इ. सू. बहुव्रीहिसमास । समानस्य धर्मादिषु । ३-२-१४९ । इ. सू. समानस्य स. । ) मित्रः प्रधानवयोभिः पक्षिभिर्वा आश्रितः प्रफुल्लपोपगतः प्रफुल्लया विकस्वरया पनया लदाया पक्षे प्रफुल्लः ५ः कमलैः उपगतः । साधुपालियुक् साधूनां पालि. श्रेणिः वा' मनोज्ञा पालिः तया युज्यते इति । किंविशिष्ट सं धनागमौरसं धनो बहुरागमः सिद्धान्तः पक्षे धनागमो वर्षर्तुः तस्मात् औरसमुत्पन्नम् ॥ ५९ ॥ मयैव जातानि मयैव वर्धिता-याङ्मुखीभूय ममावतस्थिरे । इमानि पद्मानि रमानिवासता-मवाप्य माद्यन्मधुपैश्च सङ्गतिम् ॥६०॥ प्रशाधि विश्वाधिप किं करोम्यहं, त्वमीशिष मूढजनानुशासने । इदं वदंस्तत्त्वधियः कृते स्वयं, जड स्तडागः किमुपास्त ते सुतम् ॥६॥
(व्या०) मयेति । प्रिये स्वयं जडो मूर्ख शीतलो वा तडाग इदं वदन् सन् तावधियः तत्वानां धीस्तस्याः कृते परमार्थबुद्धयर्थं किं ते तब सुतमुपास्त