________________
भीजैनकुमारसम्भवाख्यं महाव्यम् टीकासमलंयतम् ॥ सर्ग: ९ (२९९
(व्या०) न्यभालीति । हे करभवत् ऊरू यस्याः सा करभोरुः (उपमानसहितसंहितसहशफवामलक्ष्मणाघरोः । २-४-७५ । इ. सू. करमशदपूर्वक ऊरशदात् स्त्रियां ऊङ् प्रत्ययः ।) तस्याः संबोधनं हे करभोरु 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' स करम उच्यते । यत् त्वया कुंभो न्यमालि 'पूर्णकलशो दृष्टः । ततस्तस्मात् कारणात् ते तवसुतः कुभवत् अभङ्गमाङ्गल्यदशां मङ्गलस्य भावो माङ्गल्यं अभङ्गं च तत् माङ्गल्यं च तस्य दशामवस्थां श्रयिष्यति आश्रयिष्यति । किविशिष्टस्तव सुतः कुंभश्च सुवृत्तः शोभनं वृत्तं यस्य स. सञ्चरित्रः सदाकारो वा । सुमनश्चयाञ्चितः सुमनसां साधूनां पुष्पाणां चयेन समूहेन अञ्चितः पूजितः । कमलैकपात्रता कमलाया लम्याः कमलस्य जलजस्थ वा एकपात्रस्य भावः एकपात्रतां स्थानकावं गतः प्राप्तः ॥ ५६ ॥ सुमङ्गलागीभवितुं तवद्धये, विसोढवान् कारुपदाहतीरहम् । विवेश वहावनुभूय भूयसी-श्चिराय दंडान्वितचक्रचालनाः ॥५७॥ छतज्ञ मद्दत्तजलैः प्रतीष्यतां, ततस्त्वया चक्रिपदाभिषेचनम् । इतीहितं ज्ञापयितुं किमाययो, घटा फुटत्वं तनयस्य तेऽथवा ॥५८॥
(व्या०) सुमङ्गलीति । हे प्रिये अथवा घटः कुभः ते तव तनयस्य पुत्रस्य इति ईहितं ईप्सितं ज्ञापयितुं स्फुटत्वं प्रकट किमाययौ प्राप । इतीति कि अहं तव ऋद्धये पुष्टये सुमङ्गलाशीभवितुं सुष्टु मङ्गलं (सुः पूजायाम् । ३१-४४ । इ. सू. समासः । ) अङ्गं यस्य स सुमङ्गलागः न सुमङ्गलाङ्गः असुमङ्गलाङ्गः असुमङ्गलाङ्गः सुमङ्गलाङ्गः भवितुमिति सुमङ्गलाङ्गीभपितुं कारपदाहतीः फारूणां (कृवापाजिस्वदिसाध्यशोदृस्नासनिजानिरहीणभ्य उण । १। इ. सू. उण प्रत्ययः कुर्वन्तीति कारवः) कुंभकाराणां पदानामाहतीः प्रहारान् परेणधातान् विसोढवान् सेहे । भूयसीः (गुणाङ्गाद्वेष्ठेयम् । ७-३-९। इ. सू. बहुशब्दात् इथसुः । भूलकवर्णस्य । ७-४-४१ । इ. सू. बहोभूरादेशः ईयस ईवर्णस्यलक्च अधातूदितः । २-४-२ । इ. सू. उदित्वात् स्त्रियांडीः) बहतीश्चिराय चिरकालं दंडान्वितचक्रचालनाः दंडेन अन्वितं युकं यत् चक्रं तस्य