________________
P
૨૮) શ્રીનેનકુમાલમ્માલ્ય માન્યમ્ દી સિમ ંતમ્ ॥ લશ્
यादिभिः तन्तुभिर्वा आढ्यः समृद्धः । किंविशिष्टे कुले विपुलक्षणस्पृशि विपुलश्चा क्षणश्च विस्तीर्णः क्षण उत्सवो वा गृहविभागो वा तं स्पृशतीति विपुलक्षणस्पृक् तस्मिन् ॥ ५३ ॥
परिस्फुरन्तं दिवि केतुसंज्ञया, निरीक्ष्य मां ते पृतनाग्रवर्तिनम् | विपक्षवर्गः स्वयमेव भैक्ष्यते, युधेऽमुना तद्भव जातु नातुरः ||५४ || विभर्तु गांभीर्यगुणं युवा भवा - निधाय सर्वे मयि बालचापलम् । इति प्रजल्पन् कल किंकिणीकण रमुं किमागात्प्रियमित्रवत् सवा ५५
( व्या० ) परीति । हे प्रिये वा अथवा ध्वजः अमुं तव सुतं प्रियमित्रवत् प्रियं च तत् मित्रं च प्रियमित्रं तदिव प्रियमित्रवत् (स्यादेरिवे । ७-१-५२ । इ. सू. सादृश्येऽर्थे प्रियमित्रशब्दात् वत् प्रत्ययः । किमागात् ( इणिकोर्गा | ४-४-२३ । इ. सू. अद्यन्तन्यां इण्घातो गाः आपूर्वक इण्घातोः अद्यतनीरूपम् ) किं कुर्वन् कलकिंकिणीकणैः कलाश्चता किंकिण्यश्च मनोज्ञकिंकिण्यस्तासां कणाः शब्दास्तैः मनोज्ञक्षुद्रघंटिकाशब्दैः इति जल्पतीति जल्पन् इतीति किं ते तव पृतनाग्रवर्तिनं पृतनायाः (पृपूभ्यां कित् । २९३ । इ. उ. सू. पृत् व्यायामे इतिधातोः कित् तन प्रत्ययः अदन्तत्वात् स्त्रियां आप प्रियते इति पृतना ।) सेनाया अग्रे वर्तते इति पृतनाग्रवर्तिनं दिवि आकाशे केतुसंज्ञया केतुरिति संज्ञा तथा केतुरिति नाम्ना परिस्फुरन्तं परिस्फुरतीति परिस्फुरन्तं निरीक्ष्य दृष्ट्वा विपक्षवर्गः विपक्षाणां वर्गः शत्रुसमूहः स्वयमेव भक्ष्यते भग्नो भविष्यति । केतुशब्देन ध्वज उच्यते धूमकेतुरपि इति भावः । तत् तस्मात् कारणात् युधे संग्रामे अमुना विपक्षवर्गेण सह जातु कदाचिदपि आतुर उत्सुको न भव माभूः । भवान् युवा यौवनं प्राप्तः सन् सर्वं बालचापलं बालस्य चापलं तत् मयि निधाय मुक्त्वा गांभीर्यगुणं गंभीरस्य भावोगांभीर्य ( पतिराजान्तगुणाङ्गराजादिम्य: कर्मणि च । ७-१-६० । इ. सू. गंभीरशब्दात् । भावेट्यणू । ) तदेवगुणस्तं बिभर्तु दधातु ॥ ५४-५५ ॥ युग्मम् ।
न्यभालि कुंभः करभोरु यच्चया, ततः सुवृत्तः सुमनश्चयाञ्चितः । गतः सुतस्ते कमलैकपात्रता - मभङ्गमाङ्गल्यदशां श्रयिष्यति ॥ ५६ ॥