________________
श्रीजेनकुमारसम्भपाख्य महाकाव्यम् टीकासमलंकतम् ॥सर्ग.९ (२९७
(व्या०) उदेष्यदिति । हे मृगाक्षि हरिणलोचने अहमेवं मन्ये उदेष्यतीति उदेष्यन् तस्य उदयं प्राप्तुकामस्य त्वत्तनयस्य तवतनयस्य पुत्रस्य दिवा करोतीति दिवाकरः (सङ्ख्याऽहर्दिवाविभा-टः । ५-१-१०२ । इ. सू. दिवापूर्वककृग्धातो टप्रत्ययः ।) सूर्य दीप्तिदरिद्रतां दरिद्रस्य भावो दरिद्रतां दीते. दरिद्रता दीतिरहितत्वं गत प्राप्त । तत तस्मात् कारणात् त्वया अबलयापि अयं सूर्यः स्वप्नपरम्परासु स्वाभानी परम्परा तासु सुदर्शनः सुखेन दृश्यते इति सुदर्शनः जातः ॥ ५१॥ मया नमः स्थालदशेन्धनेन ते, विधातुरारात्रिककर्म भावि तत् । ममोर्ध्वगत्वं च महश्च मृष्यतां, भवद्भुवं वक्तुमिदं सपाययौ ॥५२॥
(या०) मयेति । वा अथवा स रविः भवत्याः भूः भवद्भूतं तब पुत्रं इदं वक्तुं आययौ आयातः । इदमिति कि विधातुः ब्राह्मणो मया नभःस्थालदशे-धनेन दशा वतिरेव इन्धनं यस्य स दशेन्धनो दीपः नभः आकाशमेव स्थालं पात्रं तस्मिन् दशे-धने दीपेन ते तव आरात्रिकं कर्म भावि भविष्यति । तत् तस्मात् कारणात मम ऊर्ध्वगत्वं उचैमिनत्वं च अन्यत् महस्तेजो मृष्यतां सह्यताम् । मृपृच् क्षान्तौ एतस्यधातो प्रयोगः ॥ ५२ ।। बजावलोकादयिते तवाङ्गजो, रजोभिरस्पृष्टवपुः कुसङ्गजैः । गभी गुणादयः शिरसोऽवसतां, कुले विशाले विपुलक्षणस्पृशि ॥५३॥
(व्या०) वजेति । हेदयिते ध्वजावलोकात् ध्वजस्य अवलोको दर्शन तस्मात् ध्वजदर्शनात् तव अङ्गजः पुत्रः विशाले विस्तीर्णे कुले वशे गृहे वा शिरोऽवतंसता शिरस अवतंसता तां मस्तकमुकुटमणित्वं गमी (वयति गम्यादि । ५-३-१ । इ. सू भविष्यत्यर्थे गम् धातोर्णिन् । ) गमिष्यतीति । किंविशिष्टस्तव पुत्रो ध्वजश्च कुसङ्गजैः कुत्सितः सङ्गः कुसुङ्ग ( गतिकन्यस्तत्पुरुष । ३-१-४२ । इ. सू. तत्पुरुषसमासः । ) स्तस्मात् जातानि तै· कुसं. सर्गजे. रजोभिः पापैः पक्षे कु पृथ्वो तस्याः सः रजोभिः रेणुभिः अस्पृष्टवपुः न स्पृष्टं अस्पृष्टं अस्पृष्टं वपुर्यस्यस अस्पृष्टशरीरः । पुनः गुणाढय गुणैर्विन