________________
२९६) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग.९
सरसि जातं सरोजं कमलं ओजसा वलेन तेजसा वा निमीलयिष्यामि संकोचं प्रापयिष्यामि । तथा तव अधिकश्रिये अधिका चासौ श्रीश्च तस्यै अधिकशोभायै सितातपत्रतां सितं च तत आतपत्रं च सितातपत्रं (आतपात् त्रायते इति आतपत्रं स्थापानात्रः कः । ५-१-१४२ इ. सू. आतपपूर्वकनावातो. कः इडेत् पुंसि चातोलुक् इति सू. आलोप ) तस्य भाव. श्वेतच्छत्रतां श्रयिष्यामि । किंविशिष्टो विधुः अमुक्तमुक्तामिषतारतारकः न मुक्ताः अमुक्ताः मुक्ता मिषं येषां ते मुक्तामिषाः ताराश्च ते तारकाश्च तारतारका मुक्तामिषाश्च ते तारतारकाश्च मुक्ताभिधतारतारकाः अमुक्ता मुक्ताभिषतारतारका येन सः । त्वं परं आजिभाजिनं आणि भजतीति आजिभाजिनं (अजाते. शीले । ५-१-१५४ । इ. सू. आजिशब्द पूर्वकभधातोः णिन् ।) संग्रामसेविनं राजकं (गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकम् । ६-२-१२ । इ. सू. राजन् शब्दात् समूहेऽर्थे अकञ् राज्ञां समूहो राजकम् ।) राजसमहं रुजन् भञ्जन् सन् अत' कारणात् मम राजशब्दं माष्टुं रफेटयितुं न अर्हसि । राजशब्देन चन्द्र उच्यते ॥४८-४९॥ युग्मम् ।। दिशन् विकाशं गुणसअपभिनी-मुखारविन्देषु सदा सुगन्धिषु । निरुद्धदोषोदयमात्मजस्तव, प्रपत्यते धाम रवेरवेक्षणात् ॥ ५० ॥ __(व्या०) दिशन्निति । हे प्रिये रवे. सूर्यस्य अवेक्षणात् दर्शनात् तक आत्मज पुत्र. धाम तेज प्रपत्स्यते आश्रयिष्यते । किंविशिष्टं धाम निरुद्रदोषोदयं निरुद्धो दोषाणामिषणादीनां उदयो येन तत् । तब आत्मज किं कुर्वन् सदा निरन्तरं सुगन्धिषु (सुपूत्युत्सुरभेर्गन्धादिद्गुणे । ७-३-१४४ । इ. सू. सुपर्वक गन्धशब्दात् इ. ॥) शोभनो गन्धो येषां तानि तेषु सुपरिमलेघु गुणसभपमिनीमुखारविन्देषु गुणानां विवेकादीनां समानि पद्मिनीनां स्त्रीणां मुखानि एव अरविन्दानि गुणसद्मानि च तानि पभिनीनां मुखारविन्दानि च मुखकमलानि तेषु विकाशं दिशतीति दिशन् रविपक्षे गुणास्तन्तवः पभिन्य' कमलिन्यः ॥५०॥ उदेष्यतस्त्वत्तनयस्य तेजसा, दिवाकरो दीप्तिदरिद्रतां गतः । मृगाक्षि मन्येऽवलयापि तत् त्वया, सुदर्शनः स्वमपरम्परास्वयम् ५१