________________
श्रीजैनकुमारसम्भवाख्यं मद्दी काव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (२९५
अत्र वा इवार्थे स्रजो मालायाः छलात् भिषात् स्मरः कामः रोपं वाणं व्यसृजत् प्रहितवान् । इदमिति किं भवान् गृही गृहस्थः सन् मम आदेशवशः आदेशस्य चशो भवेत् वशेन भवितव्यमिति भावः । च अन्यत् गृहीतदीक्षस्य गृहीता दीक्षा येन तस्य ते तच अहं प्रभुः समर्थो नास्मि ॥ ४६ ॥
་
यदिन्दुरापीयत पार्वणस्त्वया, ततः सुवृत्तो रजनीघनच्छविः । - सदा ददानः कुमुदे श्रियं कला - कलापवांस्ते तनयो भविष्यति ॥ ४७
( व्या० ) यदिति । हे प्रिये यत् पार्वणः पर्वणि पौर्णमास्यां भव. पार्वणः (भवे । ६-३-१२३ । इ. सु. पर्वन् शब्दात् भवेऽर्थे अणु ( ) ततः सुवृत्तः पूर्णिमासंबंधी इन्दुश्चन्द्रः आपीयत ( यः शिति । ३-४-७० । इ. सू. भावातो' कर्मणि शिद्विपये क्यः । ईञ्जनेयपि । ४-३ - ९७ । इ. सू. क्ये परे श्राधातोराकारस्य दीर्घ ईकार कर्मणि ह्यस्तनी । ) पीयते स्म किंलक्षण इन्दुः रजनीवनच्छवि रजन्या रात्रौ घना बहु छवि कान्तिर्यस्य सः । कुमुदे कैरवे सदा श्रियं शोभां ददान' दत्ते इति ददान | कलाकलापवान् कलानां कलापः स अस्ति अस्येति कलाकलापवान् कलासमूहयुक्तः । ततः तस्मात् कारणात् सुवृत्तः शोभनं वृत्तं यस्य स सुचरित्र । रजनीघनच्छवि रजनी हरिद्रा तद्वत् घना छविः कान्तिर्यस्य स । कुमुदे को पृथिव्याः मुत् हर्षस्तस्यै पृक्रिया हर्षाय सदा श्रियं शोभां ददान | कलाकलापवान् कलानां गीतवाद्यनृत्यगणित पठितलिखितादीनां कलाप समूहस्तद्वान् । एवंविधस्ते तव तनयः पुत्रो भविष्यति ॥ ४७ ॥
दाननस्पर्धि सरोजमोजसा, निमीलयिष्यामि तथाधिकश्रिये । तव श्रयिष्यामि सितातपत्रता-समुक्तमुक्ताभिषदारतारकः ॥ ४८ ॥ "५रं रुजन् राजकमाजिभाजिनं, न राजशब्दं मम मार्टुमर्हसि । इतीव विज्ञापयितुं रहोरया - दुपस्थितोऽयं तनयं तवाथवा ॥ ९४ युग्मम्
( व्या० ) त्वदिति । अथवा अयं चन्द्रस्तव तनयं पुत्रं रह एकान्ते इति विज्ञापयितुमिव रयात् वेगात् उपस्थितः प्राप्त इतीति किं हे स्वामिन् अहं त्वदाननस्पर्धि तव आननं स्पर्धते इति त्वदाननस्पर्धि त्वदीयमुखस्पर्धाकारि सरोजं