________________
२९४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकतम सर्गः९
देशः । डस्युक्तं कृता । ३-१-४९ । इ. सू. नित्यतत्पुरुषः । अद्वयञ्जनात्सतम्याबहुलम् । ३-२-१८ । इ. सू सप्तम्या अलुप् । कुशे गेते इति कुशे शयम् ।) कमले कृशिते ग्लानि प्रापिते सति चमुरजोभिः चमूनां रजासि तैः पयोनिधौ पयसां निधिस्तस्मिन् समुद्रे स्थगिते सति आच्छादिते सति ।।४२.४३॥ युग्मम् ।। स्वसौरभाकर्षितषट्पदाध्वगा, सगालुलोके यदि कोसुभी त्वया । ततःसुतस्ते निजकीर्तिसौरभा-वलीढविश्वत्रितयो भविष्यति ॥४४॥
(व्या०) स्वइति । हे प्रिये यदि त्वया कौसुमी कुसुमानामियं कौसुमी कुसुमसंबंधिनी सग माला आलुलोके दृष्टा । किलमणा स्रक स्वसौरभाकर्षितषट्पदावा स्वस्यात्मनः सौरभेण ( वृवर्णाल्लघ्वादे । ७-१-६९ । इ. सू. भावेऽथै सुरभिशब्दादण । सुरमे व सौरभम् । ) परिमलेन आकर्षिता पट्पदा भ्रमरा एव अध्वगा• पान्था यया सा ततः तस्मात् कारगात् ते तव सुतः पुत्रो निजकीर्तिसौरभावलोढविश्वत्रितयः निजस्यात्मनः कीर्त्या सौरभेण परिमलेन अवलीढ व्याप्तं विश्वानां जगतां त्रितयं (अवयवात्तयट् । ७-१-१५१ । इ. सू अवयवे त्रिशब्दात् तयट् । ) येन स भविष्यति ॥ ४४ ॥ अयं विवादे ननु दानविद्यया, विजेष्यते नश्चिरशिक्षितानपि । इयं मियेतीव सुग्द्रुभिर्भव-भुवो ददे दंडपदेऽथवा किमु ॥ ४५ ॥
(व्या०) अयमिति । अथवा सुरद्रुभि कल्पवृक्ष इयं स्रग भवद्भवः भवत्या भवतीति भवद्भू तस्य भवद्भुव तव पुत्रस्य किमु दडपदे दंडस्य पदं तस्मिन् दंस्थाने ददे दत्ता। उत्प्रेक्षते इति भिया ईदृग्भयेनेव । इतीति किं अर्थ तव पुत्रो ननु निश्चितं चिरशिक्षितानपि चिरशिक्षिताः तानपि नोऽस्माम् दानविद्यया दानविद्या तया विजेष्यते 'परावेजें' इति सूत्रेणात्मनेपदम् ॥ ४५ ॥ भवान् ममादेशवशो भवेट्टही, गृहीतदीक्षस च नास्मि ते प्रभुः। वदन्निदं वानुगभृङ्ग निःस्वनैः, समरोऽस्य रोपं व्यसृजत् सजश्छलात् ४६
(व्या०) भवानिति । अनुगभृङ्गनि.स्वनै अनुपश्चाद् गच्छन्तीति-अनुगाः पृष्ठस्था. ते च ते भृङ्गाश्च भ्रमरास्तेषां नि स्वनाः शब्दास्तैः । इद वदन् वा इव