________________
श्रीजेनमारसम्भवाय महाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (२९३
यदिन्दिरा सुन्दरि वीक्षिता ततः, स्त्रियो नदीनप्रभवा अवाप्स्यति । कलाभृदिष्टाः कमलंगताः पर:-शतास्तयैवोपमिताः सुतस्तव ॥४१॥
(व्या०) यदिवि । हे सुन्दरि यत् त्वया इन्दिरा लक्ष्मीवीक्षिता दृष्टा । ततस्तस्मात् कारणात् तवसुत पुत्र पर आता शतेभ्यः परा पर शताः शतसहस्राधिका तयैव इन्दिरया लम्या उपमिता उपमानं प्रापिता. त्रिय आप्त्यति प्राप्स्यति । किविशिष्टा स्त्रियः नदीनप्रभवा । न दीनो हीनः प्रभव उत्पति. यासां ता लामी पक्षे नदीना इन:-स्वामी समुद्र तस्मात् प्रभवो यस्याः सा । अत्र अर्थवशाद्विभक्तिपरिणामो लम्या विशेषणो ज्ञेयः । पुन' कलामृदिष्टाः कलाः विभ्रतीति कलामृतः कलावन्तस्तेषां इष्टा अभीष्टा । पक्षे कलामृत् चन्द्रस्तस्य इष्टा रात्री लक्ष्म्याः चन्द्रमण्डलवासितत्वात् । कमलं गताः कं सुखं अलं अत्यर्थ गताः पक्षे कमलं पद्मं गताः स्थिता ॥ ४१ ॥ बलाधिकत्वाच्चलिते हरे हृदि, प्रसह्य भने युधि गजमण्डले । अनेन पद्धयां कृशिते कुशेशये, चमूरजोमिः स्थगिते पयोनिधौ ॥४२॥ - सुतस्तवैवास्ति गतिर्ममाधुना, तवेति वा जल्पितुमाययावसौ। खजातिधौरेय मनुप्रविश्य य-त्प्रभुप्रसादाय यतेत धीरधीः॥४३युग्मम् ___(व्या०) बल इति । हे प्रिये असौ इन्दिरा लक्ष्मी वा अथवा तव इति जल्पितुं किमाययौ आयाता । तव इत्यत्र विवक्षातः संबवे षष्ठी अन्यथा त्वामिति स्यात् । इतीति किं ममतावच्चत्वारि स्थानानि । एकं हरिदय । द्वितीयं चन्द्रमण्डलं । तृतीय कमलं । चतुर्थ समुद्र । अनेन तव पुत्रेण इति पदं सर्वत्र योज्यते। बलाधिकावात बलस्य अधिकत्व तस्मात् बलाधिक्यात् हरेर्वासुदेवस्य हृदि हृदये चलिते सति बलो बलभद्रः बलं सैन्यं हरेरेक एव बलः अस्यतुबलाधिकत्वमिति भाव । प्रसह्य बलात्कारेण राजमण्डले राज्ञां मण्डलं तस्मिन् राजसमृहे चण्द्रमण्डले वा युधिसग्रामे भग्ने सति पद्भयां चरणाभ्यां कुशेशये (आधारात् । ५-१-१३७ । इ. सू. कुशे इति आधारपूर्वकशीधातो अप्रत्यय । नामिनो गुणोऽडित । ४-३-१ । इ. सू गुणः । एदैतोऽयाय् । १-२-२३ । इ सू अयः