________________
२९२) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९
सिंहस्तस्य वीक्षखत वोक्षणात इति वीक्षणतो दर्शनत त्वदाज तव अङ्गजस्वत्पुत्रो नेतृतां नेतुभावो नेतृता तां प्रभुतां न आप्स्यति न अपितु प्राप्स्यत्येव ।। किं कृत्वा अवनीगताङ्गिन. अवनी महीं गता अवनीगताः ते चते अङ्गिनश्च प्राणिन तान् पक्षे महद्धनं वनो तत्र स्थितान् प्राणिनः महाबलानपि महद्वलं येषां ते तानपि सबलानपि मृगोकृत्य न मृगाः अमृगा अमृगान् मृगान् कृ वा इति मृगीकृत्य । किं कुर्वन् महीभृतः महीं बिभ्रतीति महीभृतस्तान् राज्ञ प्रधोपत प्रसि ढेरन्तलनयन् चमत्कुर्वन् पक्षे प्रकृप्टात् घोषतः सिंहनादात् महीभृत पर्वतान् अन्तर्ध्वनयन् प्रतिशब्दयन् ॥ ३८ ॥ नयाप्तसप्ताङ्गकराज्यरङ्गभूः, क नायकस्त्वं प्रखरायुधो नृणाम् । प्रभुः पशूनां नयनपुणं विना, वसन् वनेऽहं नखरायुधः क्व च ।।३९ तथापि मा कोपमुपागमः कृतो-पमा कृतीशै युधि विक्रमान्मया । सुतं तवेत्यर्थयितुं समागतः, किमर्थिकल्पद्रुममेष केसरी ॥४०॥युग्मम्
(व्या०) नय इति । हे प्रिये एष केसरी केसराः सन्ति अस्येति केसरी सिंहः अर्थिकल्पद्रुमं अर्थयन्ते इति अर्थिनो याचकास्तेषां कल्पद्रुमः (धुद्रोम ७-२-३७ इ. सू. मत्वर्थे द्रुशब्दात् म । ) तं वाचकजनकल्पवृक्षं तव सुतं पुत्र इति प्रार्थयितुं समागत । इतीति किं त्वं नृणां नायकः क्व किं विशिष्टस्त्वं नयाप्तसता कराज्यरङ्गभः सप्त स्वान्यादीनि अङ्गानि यस्य तत् सप्ताङ्गक सप्तागकं च तत् राज्यं च सता राज्यक नयेन न्यायेन आप्तं प्राप्त नयाप्तं नयाप्तं च तत् सताराज्यं च नयाप्तसप्तङ्गकराज्यं तस्य रङ्गभूमिः । पुनः प्रखरायुधः प्रखराणि कठोराणि आयुधानि यस्य स. । अन्यत् अहं पशुनां प्रभु क किं वशिष्टोऽहं नखरायुध नखरा एव आयुधानि यस्य स न निषेधार्थ खरायुध. तीनशनो न । पुन: नयनैपुणं नये नैपुणं नयनपुणं ( विना ते तृतीया च । २ -२-११५ इ. सू विनायोगे नयनपुणमित्यत्र द्वितीया । ) तत् न्याय:क्षत्वं विना वने वसन् । त्वं कृतीशै कृतिना ( इष्टादे ७-१-१६८ इ. सू. कृत शब्दात् कर्तरि इन् । ) मीशा कृतीशास्तैः कृतयुधि संग्रामे विक्रमात् पराक्रमात् मया सह कृतोपम• कृता उपमा यस्य सः भविष्यसि । तथापि कोपं मा उपागमः ॥ ३९ ॥ ४० ॥ युग्मम्