________________
भीजैनमारसम्भवायं महाव्यम् टीकासमलंकृतम् ॥ सर्ग. ९ (२९१
सत. ५-१-१४० इ. सू. अग्रेशदात् परात् सूधातो. प्रत्ययः । ) महारथेषु अग्रेसरता तां मुख्यता पक्षे महान रथः तस्य अग्रेसरतां अग्रगामित्वं गतः प्राप्तः सन् वीरधुगं वोरस्य धू. तां वीरधुरां (धुरोऽनक्षस्य ७-३-७७ इ. सू ममासान्तोऽत् । अदन्तत्वात् स्त्रियामाप् । ) धरिष्यति । 'धनुर्वेदस्य तत्त्वज्ञ सर्वयो. धगुणान्वित । सहस्र योवयत्थेकः स महारथ उच्यते' ॥ १ ॥ इति युद्धकलाविलासे ॥ ३५ ॥ सुपर्वलोकाचदिवा तवाङ्गजे, प्रवेशमातन्वति भूतले नवम् । अहो महोशः किमसौ पुरोऽस्फुर-नदन्नदभ्रं शकुनप्रदित्सया ॥३६॥
(व्या०) सुपर्व इति । यदिवा अथवा इति शव्देन द्वितीयकारणमाह प्रिये अहो इत्याश्चर्ये महेोक्षो महावृषभ महांश्चासौ उक्षा च महोक्ष. ( जातमहद् वृद्रादु कर्मवारयात् ७-३-९५ इ. सू महत् शब्द पूर्वक उमन् शब्दात् अत् समासान्त ) सुपर्वलोकात् सुपर्वणां देवानां लोक तस्मात् देवलोकात् तब अङ्गजे पुत्रे भतले भुवस्तलं तस्मिन् पृथ्वोतले नवं नतनं प्रवेशं आतन्वति आतनोतीति आतन्वन् तस्मिन् कुर्वति सति अदभ्रं अतुन्छ नदन् शब्द कुर्वन् सन् शकुनप्रदित्सया शकुनानां प्रदातुमिच्छ। तया शकुनप्रदानेछया कि पुरोऽग्रेऽस्फुरत् ॥ ३६ ॥ जिनेषु सर्वेषु मयैव लक्ष्मणा, जनेन तातस्तव लक्षयिष्यते । अयं चटूत्यत्यथवा तवात्मजा-प्रसादमासादयितुं किमापतत्॥३७॥
(व्या०) जिनेषु इति । अपवा अयं वृषभ इति चट्या चाटुवचनेन हे प्रिये तब आत्मजात् आत्मनो जात आत्मज पुत्रस्तस्मान् प्रसादमासादयितुं प्राप्तुं कि आपतत् आगत । इतीति किं जनेने लोकेन सर्वेषु जिनेषु मयैव लक्ष्मणा लाञ्छनेन तव तात पिता लभविष्यते उपलक्षविष्यते ॥ ३७ ॥ द्विपद्विषो वीक्षणतोऽवनीगता-गिनो मृगीकृत्य महाबलानपि । न नेतृतामाप्स्यति न त्वदङ्गाजः, प्रघोषतोऽतनयन्महीभृतः॥३८
(व्या०) द्विप इति । हे प्रिये द्विपद्विष द्विपान् हस्तिनो द्वेष्टीति द्विद्विपट्