________________
२९०) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ वया यदादौ हदिहस्तिसोदरः, पुरः स्थितस्तन्वि करी निरीक्षितः । मनुष्यलोकेऽपि ततः श्रियं पुरा दधाति शातक्रतत्र तवाङ्गजः ॥३३ ( व्या० ) त्वयेति । हे तन्वि त्वया यद् आदौ हरिहस्तिसोदरः हरेरिन्द्रस्य हस्ती गज ऐरावणस्तस्य सोदर ( समानस्य धर्मादिषु ३-२- १४९ इ. सू. समानस्य स आदेश. समानं उदरं यस्य सः सोदर: 1 ) ऐरावणस्य बांधवः करी हस्ती पुरः स्थितः अग्रे स्थितो निरीक्षित दृष्ट' । तत् तस्मात्कारणात् तव अङ्गज' पुत्र मनुष्यलोकेऽपि मनुष्याणां लोकस्तस्मिन् शाततव शतक्रतोरिन्द्रस्य इयं शातनवो तो इन्द्रसंबन्धिनों श्रियं लक्ष्मी पुरा दधाति धास्यति । 'पुरा यावतो वर्तमाना' इति सूत्रेण भविष्यति काले वर्तमाना ज्ञेया ॥ ३३ ॥ दिगन्तदेशांस्तरसा जिगीषया, ऽभिषेणयिष्यन्तमवेत्य तेऽङ्गजम् । प्रहीयते स्म प्रथमं दिशा गजैः, प्रिये किंमरावत एष संधये ॥ ३४ ॥
( व्या० ) दिगिति । हे प्रिये ते तत्र जङ्ग अङ्गात् जातस्त पुत्र तरसा वेगेन दिगन्तदेशान् दिशामन्तास्तेषां देशास्तान् जिगीषया जेतुमिच्छा जिगीषा तया जेतुमिच्छया अभिषेगयिष्यन्तं सेनया अभिमुखं गमिष्यन्तमवेत्य ज्ञात्वा ऐरावतः १ पुंडरीकः २ वामन ३ कुमुद ४ अञ्जन ५ पुष्पदन्त ६ सार्वभौम • ७ सुप्रतीकश्च ८ दिग्गजाः ॥ पुंडरीकाद्यैर्दिशांगजै दिग्गजै एष ऐरावतः प्रथमं संघये संत्रिकरणाय किं प्रहीयते स्म ॥ ३४ ॥
यदक्षतश्रीषभो निरीक्षितः, क्षितौ चतुर्भिश्चरणैः प्रतिष्ठितः । महारथाग्रेसरतां गतस्तत - स्तवाङ्गभूवरघुगं धरिष्यति ॥ ३५ ॥
अक्षता
(न्या० ) यदिति । यत् यस्मात् कारणात् अक्षतश्रीः न क्षता अक्षता श्रीर्यस्य स अक्षयलदगीर्वृषभो निरीक्षित दृष्टः । किंलक्षणो वृषभः श्रितों पृथिव्यां चतुर्भिश्चरणै पादै प्रतिष्ठित । हे प्रिये ततस्तस्मात्कारणात् तत्र अङ्गभ्रू अङ्गात् भत्रनीति अङ्गभू ( कि ५-१-१४८ इ. सू. अङ्गशब्द पूर्वकभूघातो. क्रिप्प्रत्ययः । ) पुत्रः महारथाग्रेसरतां महान् रथो येषां ते महारथा सहस्रयोधिन, अग्रे सरतीति अग्रेसरस्तस्य भावोऽग्रेसरता ( पुरोऽग्रतोऽग्रे