________________
श्रीजैनकुमारसम्भवास्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (२८९
वीक्षा पुर।कृत सुकृत पुण्यै स्फुटोकृता न स्फुटा अस्फुटा अस्फुटा स्फुटाकता ' इति स्फुटीकृता निशीथे अर्धगत्रे स्फुटीकृता प्रकटीकृता । केव अरागवागिव न विद्यते रागो यस्य स अराग वीतरागोऽर्हन् तस्य वाग वाणी वीतरागवाणी भवोतरं भवस्य उत्तरस्तं संमारपार विशनष्टि । किविशिष्टा अरागवाक् प्रस्तावात् भव्यानां पुराकृते. सुकृत स्फुटीकृता निशोथस्य उपलक्षणत्वात् अन्येऽपि सिद्धान्तग्रन्था ज्ञेया । किं विशिष्टं भवोत्तर प्रदुष्टभावारिभयच्छिदं प्रकर्षण दुष्टानां क्रोवमानमायालोभमोहादिभावारीणां भयं छिनत्तीति प्रदुष्टाभावारिभयच्छित् तम्।। बलं सुतं यच्छति तच्चतुष्टयी, लतेव जातिः कुसुमं समुज्ज्वलम् । तदेकतां वीक्ष्य तदेकतानया, स्त्रियाङ्गभूमांडलिकः प्रकल्प्यताम् ॥३१
(व्या०) बलमिति । तचतुष्टयी तेपा स्वप्नाना चतुष्टयी (अवयवात् तयद् ७-१-१५१ इ. सू. चतुरशब्दात् तयट टित्वात् ङो । ) चतुष्क बलं सुतं बलदेवं पुत्रं यच्छति । केव जातिलतेव यथा जातिलता मालती समुज्ज्वलं कुसुम यच्छति । यतो बलदेवोऽपि समुज्ज्वलः स्यादिति । तदेकतानतया तेषु स्वप्नेषु एकतानता सावधानता तया सावधानतया स्त्रिया तदेकतां तेषां स्वप्नानामेकतां एकं स्वप्नं वीक्ष्य मांडलिकोऽङ्गभूः अङ्गात् भवतीति अङ्गभू पुत्रः प्रकल्प्यता चिन्त्यताम् ॥ ३१ ॥ तदीदृशस्वप्नविलोकनाचया- ऽधिगंस्यते चक्रधरस्तनूरुहः । विशन्ति विद्याः किल यं चतुर्दश, श्रयन्ति रत्नान्यपि संख्ययातया।।
(व्या०) तदिति । हे प्रिये तत् तस्मात् कारणात् ईदृशस्वप्नविलाकनात् ईशाश्च ते स्वप्नाश्च ईशस्वप्नास्तेषां विलोकनात् त्वया चक्रधर चक्रं धरतीति चक्रधर ( आयुधादिभ्यो धृगोऽदण्डादे. ५-१-९४ इ सू. गधातो. अच् प्रत्ययः । डस्युक्तं कृता ३-१-४९ इ सू. नित्यतत्पुरुषसमासः ।) तनूरहः तन्वां शरीरे रोहतीति तनूरुह पुत्र अधिगंस्यते प्राप्स्यते किल इति सत्ये । चतुदश विद्या यं पुत्रं विशन्ति प्रविशन्ति । तया चतुर्दशरूपया संख्यया रत्नान्यपि संश्रयन्ति सेवन्ते ॥ ३२॥