________________
२८८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीसमलंकृतम् ॥ सर्ग:९
अंशको यस्य स अशीतांशुः अशीतांगोः सूर्यस्य महसा तेजसा महत् च तत् उज्वलं च तस्मिन् अगीतांशुमहोमहोपले सूर्यस्य तेजसा देदीप्यमाने दिने दिवसे दीपो भवन् परभाग गुणोत्कर्ष न अच्छति न याति । हे विशालाभि विशाले अक्षिणी यस्याः सा तस्याः संबोधन हे विशालाक्षि विस्तीर्णलोचने असौ स्वप्नभर असामान्यगुणैकम असामान्याश्वते गुणाश्च तेषां निरूपमगुणानामेकभू एकस्यानं वर्तते । इति अस्मात् कारणात् वृथा निष्फलो न चिन्त्यताम् । यत् अग्र्यं प्रशस्यं फलं तत् अथ प्रवीमि । ते तव संमदो हर्षो मितगणनाया परां कोटिमियतु प्राप्नोतु ॥ २७ ॥ २८ ॥ युग्मम् ॥ चतुर्दशस्वमनिभालनद्रुम-स्तनोत्यसौ मातुरुमे शुभे फले । इहैकमहजननं महत्फलं, तनु द्वितीयं ननु चक्रिणो जनुः ॥ २९ ॥
(-या०) चतुरिति । असौ चतुर्दशस्वप्ननिभालनद्रुमः चतुर्दश च ते स्वप्नाश्च चतुर्दशस्वप्ना (संख्या समाहारे च द्विगुश्चानाम्न्ययम् ३-१-९९ । इ. सू. द्विगुसमासः । ) स्तेषां निभालनमवलोकनं तदेव द्रुमो (धुद्रोर्म ७-२३७ इ. सू. मत्वर्थे द्रुशदात् म. द्रु शाखा अस्ति अस्य इति द्रुम ।) वृक्ष चतुर्दशस्वप्नावलोकनरूपवृक्षः मातुर्जनन्या उभे द्वे शुभे फले तनोति करोति । इह एकं अर्हजननं अर्हतो जननं जन्म अर्ह जन्म महाफलं वर्तते । द्वितीयं (द्वेस्तीय ७-१-१६५ इ. सू. द्विशब्दात् संख्यापूरणे तीयप्रत्ययः ।) तु तनु स्तोकं ननु निश्चितं चक्रिणो जनु जन्म स्यात् ॥ २९ ॥ प्रदष्टभावारिभयच्छिदं स्फुटी-कृता निशीथे सुकृतः पुराकृतः । तदर्धवीक्षा विशिनष्टि केशवो-शवं भवोत्तारमरागवागिव ।। ३० ॥
(व्या०) प्रदुष्ट इति । हे प्रिये तदर्धत्रीक्षा वीक्षाया अर्ध अर्धवीक्षा (समेंऽशेऽर्द्ध नवा ३-१-५४ इ. सू. तत्पुरुषसमासः ।) तेषा मनोभा तदर्धवीक्षा तदर्धदर्शन केशवोद्भवं केशवस्य उद्भव उत्पत्तिस्तं वासुदेवोत्पत्ति विशिनष्टि कथयति । किंविशिष्टं केशवोद्भवं प्रकर्षेण दुष्टो भावो येषां ते प्रदुष्टभावा. ते चते अस्यश्च वैरिण प्रदुष्टभावारीणां भयं छिनत्तीति तम् । किविशिष्टा तदई.