SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ भीजैनकुमारसम्भवाव्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ९ (२८७ सू. सौख्य पूर्वकद्राधातोः शीलेऽर्थे णिन् । आत ऐकुञ्ज ४-३ - ५३ इ. सू. ऐ. एदैनोऽया १-२-२३ । इ. सू. आयादेग । स्त्रियां नृतोऽस्वत्रादेर्डी. २-१-१ । इ. स् नान्तत्वात् त्रियां डीः । ) न बाला अवाला पण्डितास्तेषु भवतीत्येवं शीलं अचालभावि तच्च तत् श्रुतं च शास्त्रं तस्यसौ ख्यं छात्रो ताम् । अयं स्वप्नभर हि निश्चितं तां धृतिं मतिं वर्धयितुं प्रभु समर्थ स्यात् । किंवत् ब्राह्ममुहूर्तच ब्राह्ममुहूर्त इव यथा ब्राह्ममुहूर्त धृतिं सन धिं मतिं बुद्धिं वर्द्धयितुं प्रभु समर्थ' स्यात् । किंविशिष्ट. स्वप्नभर ब्राह्ममुहूर्त निशान्तरुक् नितरां - शान्ता रागा यस्मात् स निशान्तरुक् पक्षे निशाया रात्रेरन्ते अवसाने रोचते इति निशान्तरुक् ॥ २५ ॥ जनानुरागं जनयन्नयं नवं धुवोदयप्राभवदानलग्नकः । यदन्यदप्यत्र मनोहरं तद- प्यनेन जानीहि पुरः स्फुरत् प्रिये ॥ २६ ॥ ( व्या० ) जन इति है प्रिये अयं स्वप्नभर ध्रुवोदय प्राभवदानलप्रकः ध्रुवो निश्चित उदयो यस्य स ध्रुवोदय स चासौ प्राभवश्च स्वामित्वं ध्रुवोदयप्राभवस्वस्थ दाने लग्नक प्रतिभूवर्तते । किं कुर्वन् अयं नवं नवीनं जनानुरागं जनानामनुगग स्नेहस्तं जनयन् जनयतीति जनयन् उत्पादयन् । यत् अन्यदपि अत्र त्रिजगति विश्वे मनोहरं (हृगोवयोऽनुद्यमे ५ - १ - ९५ । इ सू अनुद्यमे मन कर्मण' परान् हृग्वातोरच् प्रत्ययः नामिनोगुणोऽति ४-३ - १ इ. सू. गुण । वस्तु तदपि अनेन स्वप्नभरेण पुरोऽग्रे स्फुरत् देदीप्यमानं जानीहि || २६ || यदिष्यते हन्त शुभान्निमित्ततः पुरापि तद्वस्तु ममस्तमस्ति मे । भवन्नशीतांशुमद्दोमहोज्ज्वले, दिनेन दीपः परभागमृच्छति ॥ २७ ॥ असाव सामान्यगुणैकभूरिति त्वया विशालाक्षि वृथा न चिन्त्यताम् । फलं यदग्र्यं तदथ ब्रवीमि ते, मितेः परां कोटिमियसंमदः ||२८|| ( व्या० ) यदिति । हे प्रिये हन्त इति वितर्के शुभात् निमित्तत निमिचात् इति निमित्तत शुभनिमित्तहेतो यदिष्यते वाञ्छयते तत् समस्तं वस्तु पुरापि अग्रेपि मे ममास्ति । अशीतांशु महो महोज्ज्वले न शीता अशीता अशीता ' ,
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy