________________
२८६) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः९
विदोषा निर्दोषा विदोषा चासो धोश्च विदोषधी तम्या भवतीति तेन विदोषधीभुवा । केनेव रसायनेनेव यथा रसायनेन नवा गदा रोगा वासं स्थितिं न कुर्वन्ति पुरातना अपि गदा. शमं यान्ति । किंविशिष्टन रसायनेन विदोषधीभुवा वित च ज्ञान ओषध्यश्च विदोपध्यस्ताभ्यो भवतीति तेन विदोषभुवा ॥ २३ ॥ दिनोदयेनेव हते सुसंहते-ऽमुना धनारिष्टतमिस्रमण्डले । कुले विलास कमलावदुत्पले, करोति पुण्यप्रभवा शिवावली ॥ २४॥
(व्या०) दिन इति । अमुना स्वप्नभरेग सुसंहते सुष्टु संहतं मिलित तस्मिन् अत्यर्थ मिलिते धनं च तत् अरिष्टं च धनारिष्टं निचितं अरिष्टं पापं तमित्राणामन्धकाराणां मण्डलं घनारिष्टमेव तमित्रमण्डलं तस्मिन् धनारिष्टरूपअन्धकारसमूहे हते सति पुण्यप्रभवा पुण्यं प्रभवः (प्रभवति अस्मात् इति प्रभव । युवर्णदेवशरणगमृद्ग्रह । ५-३-२८ । इ. मू प्रपूर्वक भूधातोरल ।) कारणं यस्याः सा पुण्योत्पन्ना शिवावलो शिवाना मङ्गलानामावली श्रेणि मङ्गलश्रेणिः कुले विलासं करोति । किंवत् कमलावत् ( स्यादेग्वेि ७-१-५२ इ. सू. कमलाशब्दात् सादृश्येऽर्थे वत् प्रत्यय ।) कमला इव कमलावत् लक्ष्मीवत् । केनेव दिनोदयेनेव दिनस्य उदयो दिनोदयस्तेन यथा दिनोदयेन घनारिष्टतमिस्रमण्डले घनश्च मेव अरिष्ट च रत्नं घनारिप्टे तमित्राणामन्धकागगा मण्डलं घनारिष्टे इव तमिस्त्रमण्लं तस्मिन् धनवत अरिष्टवत् कृष्णान्धकारसमूहे हते सति कमला लक्ष्मी: उत्पले कमले वासं निवास करोति ॥ २४ ॥ अबालभाविश्रुत सौख्यदायिनी, वृथा विभूतिर्विभुता च यां विना । अयं हि तां वर्धयितुं निशान्तरुक, धृति मतिं ब्राह्ममुहूर्तवत्प्रभुः ॥२५॥
(व्या०) अबाल इति । विभूतिलक्ष्मी विभुता प्रभुत्व यां धृति मतिं (विना ते तृतीया च २-२-११५ । इ. न्यू बिनायागे धृति मतिमित्यत्र द्वितीया।) विना वृथा निफठा स्यात् । किंलक्षणां वृति अबालभाविश्रुतसौख्यदायिनी अत्राला चापौ भा च प्रौढा प्रभा तया विश्रुतं विख्यातं यत् सौख्यं तद् ददातीति । किंल्पां मतिं अबालभविश्रुनयोख्यदायिनी (अनाने शीले ५-१-१५४ । इ.