________________
श्रीजनामारसम्भवाल्य महाव्यम् टीकासमलंकृतम् ॥ सर्ग: ९ (२८५
मृगाक्षि वल्लीव धनाधनोदका-द्भवत्यतः स्वमभरान्नवा रमा । प्रयाति गर्भानुगुणात्प्रथां पुनः, पुरोदिता सा सरसीकृताश्रयात् ॥२२॥
(व्या०) मृगाक्षि इति । हे मृगाक्षि मृगस्य अक्षिणी इव अक्षिणी लोचने यस्या सा मृगाक्षी तत्सबोधनं हे मृगाक्षि हे मृगलोचने अतोऽस्मात् स्वप्नभरात् स्वमानां भरस्तस्मात् स्वमसमूहात् नवा नवीना रमा लक्ष्मीर्भवति । पुनः पुरोदिता पूर्वमुदिता सा रमा प्रथां विस्तारं प्रयाति । किविशिष्टात् स्वप्नभरति घनावनोदकात् वनं च तत् अधं च पापं घनाधं तत् नुदति स्फोटयति इति घनाधनोदकस्तस्मात पुन गर्भानुगुणात् गर्भम्य अनुगुणः सदृश तस्मात् गर्भसात् । यदि उत्तमो गर्भस्तदा स्वप्ना अपि उत्तमाः स्युरिति । पुन सरसीकृताश्रयात् रसेन सह वर्तते इति सरस न सरस असरस असरस' सरसः कृत इति सरसीकृत' सरसीकृत. आश्रयो येनस सरसीकृताश्रयस्तस्मात् । केव वल्लीव यथा पल्लो घनाघनोदकात् घनाघनस्य ( चराचरचलाचलपतापतवदावदधनाधन पापट वा ४-१-१३ । इ सू. धनाधनशब्दो निपात्यते ) मेघस्य उदकं जलं तस्मात् मेघजलात नवा भवति पुरोदिता सा वल्ली प्रथां विस्तार प्रयाति । किविशिष्टात् घनाधनोदकात गर्भानुगुणात अभ्रविद्युत हिमानि गभस्तेषामनुगुणात् सदृशात् यादृशा गर्भास्तादृशी वृष्टि स्यात् । पुन सरसीकृताश्रयात् सरस्यां सरोवरे कृत आश्रय स्थान येन तत् तस्मात् ॥ २२ ॥ अनेन सर्वस्वजनाकुले कुले-नवा नवासं विदधत्यही गदाः। पुरातना अप्युपयान्ति ते शमं, रसायनेनेव विदोषधीभुवा ॥ २३ ॥
(व्या०) अनेनेति । हे प्रिये अहो इत्याश्चर्ये अनेन स्वप्नभरेण सर्वस्वजनाकुले स्वम्य जना स्वजनाः सर्वे च ते स्वजनाच तैगकुलं व्याप्तं तस्मिन् कुले नवा नूतना गदा रोगा वासं स्थानं न विदधति न कुर्वन्ति । पुरातना अपि पुरा भवा पुरातना ( सायश्चिप्राणेप्रगेऽध्ययात् ६-३-८८ । इ. मू. पुग इति अव्ययात् नित्यं तनट् प्रत्यय ।) चिरंतना अपि ते गदा रोगा शमं शातिमुपयान्ति । किंविशिष्टेन स्वप्नभरेग विदोषधीभुवा विगता ढोपा यस्या सा