________________
1
२८४) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ निजै द्विजिह्वप्रियतादिदूषणै, र्हियेव मुश्चन्ति न जातु या विलम् । अनाविलं ते चरितं विषानना, न नागकन्या अनिशं स्पृशन्ति ताः । ( व्या० ) निर्जेरिति । हे प्रिये या नागकन्याः निजैरात्मीयैः द्विजिह्वप्रियतादिदूषणैः द्वे जिह्वे येषां ते द्विजिह्वाः सर्पाः खला वा तेषां प्रियता तद भोष्टत्वं सा आदिर्येषां तानि तान्येव दूषणानि तैः दोषैः जातु कदाचिदपि बिल पातालं न मुञ्चन्ति । उत्प्रेक्षते हियेव लज्जया इव । हे प्रिये ता विषानना विषमानने मुखे यासां ता विषानना विषमुख्य नागकन्याः नागानां कन्या. अनिशंनिरन्तरं अनाविलं न विद्यते आविलो दोषो यस्मिन् तत् अनाविलं तत् निर्मल ते तव चरितं न स्पृशन्ति ॥ १९ ॥
नवोदयं संगतया रयात्त्वया, ततोऽतिशिश्ये त्रिजगद्वधूजनः । तमो लाल्लब्धभवः परः प्रभा - भरः स्वधर्मैस्तरणेरिव त्विषा ||२०||
( व्या० ) नवोदयमिति । हे प्रिये ततस्तस्मात्कारणात् त्रिजगद्वघूजन: त्रयाणां जगतां समाहार त्रिजगत् तस्य वध्वस्तासां जनः स्वर्गमर्त्यपातालसत्कस्त्रीजनः त्वया अतिशिश्ये अतिक्रान्त' । किंविशिष्टया त्वया स्वधर्मे स्वस्य धर्मास्तै स्वधर्मैः आत्मपुण्ये नवोदयं नवश्वासौ उदयश्च तं नवीनोदयं सङ्गतया प्राप्तवत्या । कयेव तरणे' सूर्यस्य त्विया इव यथा सूर्यस्य त्विषा कान्त्या तमोबलात् तमसां बलं तस्मात् लब्धभव लब्धो भवो येन सः परोऽन्य प्रभाभरः प्रभाणां भरः समूह' कान्तिसमूह स्वयम् स्वकिरणैः अतिशय्यते अतिक्रम्यते ॥ त्वयेक्षितः स्वप्नगुणो गुणोज्ज्वलो, न जायते जात्यमणिर्यथा वृथा । पुनः प्रकल्प्या कथमल्पबुद्धिभि- विचारणा तस्य विचक्षणोचिता ॥ २१
(duro) caufa lè fua caur ŝfadì eeì gnìwaz: Jolewacìगुणोज्ज्वल स्वप्नगणः स्वमानां गणः स्वप्नसमूह वृथानिष्फलो न जायते । यथा जात्यमणि वृथा न जायते । यथा इवार्थे । पुनः परं अल्पबुद्धिभिः अल्पा बुद्धिर्येषां ते अल्पवुद्र्यस्तै' मन्दबुद्धिभिः मन्दप्र विचक्षणोचिता विचक्षणानां विदुषां उचिता योग्या विद्वज्जनयोग्या तस्य स्वमगणस्य विचारणा कथं प्रकल्प्या स्यात् ॥