________________
भीजैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ९ (२८३
살
वती वितनोतीति वितन्वती कुर्वती । किंविशिष्टया त्वया स्वसद स्थिति स्वस्थात्मन: सदो गृहं तस्य स्थितिस्तां स्वस्थानकस्थिति अखंडयन्त्या न खंडयन्तीअखडयन्ती तथा ॥ १६ ॥
प्रदोषा करनाम्नि निर्भरं, कलङ्किनीन्दौ महिषीत्वभीयुषीम् । तमः समुत्पन्नरुचि कृतीनरो, न रोहिणीमप्युपमित्सति त्वया ॥ १७॥
( व्या० ) प्ररुट इति । हे प्रिये कृती कृतमनेनेति कृती ( इष्टादेः ७१-१६८ इ. सू. कृत शब्दात् कर्तरि इन् । ) विचक्षणो नरः पुमान् त्वया रोहिणीमपि न उपमित्सति ( मिमीमादा मित्स्वरस्य ४-९-२० इ. सू. स्वरस्य इत् न च द्विः । ) उपमातुमिच्छति । किं विशिष्टां रोहिणीं तम समुत्पन्नरुचि -तम सु अंधकारेषु पापेषु वा समुत्पन्ना रुचि कान्तिरभिलाषो वा यस्या: सा तां 'पुन इन्दौ चन्द्रे महिषोत्वं महिष्या भावो महीत्वं पट्टराज्ञीत्वं ईयुषी इयाय इति ईयुषी प्राप्तवती किंलक्षणे इन्दौ प्ररूढदोपा करनाम्नि दोषाणामाकरः दोषाकरः पक्षे दोषा रात्रिं करोतीति दोषाकर दोषाकर ( सङ्ख्याह दिवाविभा - ट ५-११०२ । इ. सू. दोषापूर्वक कृग् घातो. ट । ) इति नाम दोषाकरनाम प्ररूढं दोषा करनाम यस्य स तस्मिन् पुनः निर्भरमत्यर्थं कलङ्किनि कलङ्कोऽस्यास्तीति कलङ्की तस्मिन् ॥ १७ ॥
कुतः प्रकर्षं समतामपि त्वया न सङ्गता श्रीरपि रूपवैभवः । स्वकं शकुन्त्याः सदृशं नभोगता-गुणं वृणं जल्पति खेचराङ्गना ||१८||
( व्या० ) कुन इति । हे प्रिये प्रकर्ष कुत श्री लक्ष्मीः अपि रूपवैभवैः रूपस्य वैभवास्तैः रूपद्रव्यै त्वया सह समतां अपि समस्य भाव समता तां तुल्यतामपि न सङ्गता न प्राप्ता । तु प्रकर्षमतिशयं कुत न कथमपि । खेचरागना खेचरतीति खेचर' ( अद्वयञ्जनात् सप्तम्या बहुलम् ३-२-१८ इ. सू. सप्तम्या अलुक् । चरेष्टः ५-१-१३८ इ. सू. चरघातो टप्रत्ययः । ) विद्याधरस्तस्य अङ्गना भार्या विद्याधरत्री स्वकं आत्मानं शकुन्त्याः पक्षिण्याः सदृशं न भोगतागुणं नमः गच्छतीति नभोग नभोगस्य भाव नभोगता नभोगतायाः गुण' न भोगतागुणस्तं आकाशचारित्वगुणं तृण जल्पति ॥ १८ ॥