________________
२८२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः९
शब्दे परे कोः कदादेशः । ) मपि कुत्सितमन्नं कदन्नं कुत्सितान्नमपि आत्ममनोविकल्पनैः आत्मनो मनांसि तेषां विकल्पनानि तैः महारसीकृत्य महान् रसो यस्मिन् तत् महारसं न महारसं अमहारसं अमहारसं महारसं कृत्वा इति महारसीकृत्य लिहन्ति आस्वादयन्ति । त्वं घुसत्प्रिया दिविसोदन्तीति घुसदो देवास्तेषां प्रियाः देवागनाः सुरभूरुहामपि भुवि रोहन्तीति भूरुहो वृक्षाः सुराणां देवानां भूरुहस्तेषां कल्पवृक्षाणामपि फलाशने फलानामशनं भोजनं तस्मिन् फलाहारे चटुक्रियां चटूनां क्रिया तां चाटुवचनानि कायसि ॥ १४ ॥ विनाश्रयं संततदुःखिता ध्रुवं, स्तुवन्ति काश्चित् सुगृहाः पतत्रिणीः । विमानमानच्छिदि धानि लीलया, त्वमिद्धपुण्ये पुनरपमरायसे ।।१५
(व्या०) विनेति । हे प्रिये काश्चित् स्त्रिया आश्रयं गृहं विना संततदु:खिताः संततं दुःखिताः सत्यः ध्रुवं निश्चितं सुमहाः शोभनं गृहं यासांता सुरहारव्याः पतत्रिणी. पक्षिणी स्तुवन्ति । हे इद्धपुण्ये इदं पुण्यं यस्याः सा तस्या. संबोधनं हे समृद्धपुण्ये त्वं विमानमानच्छिदि विमानस्य मानं छिनत्तीति तस्मिन् विमानमानच्छेदिनि धाम्नि गृहे लीलया अप्सरायसे ( ओजोऽप्सरस ३-४-२८ इ. सू. अप्सरसूशब्दात् वा क्यड् सस्य लुक् च । ) अप्सरस इव आचरसि अप्सरायसे देवाङ्गनावदाचरसि ॥ १५ ॥ अखंड यन्त्या स्वसदाथिति मदा, गतागतं ते सदने वितन्वती। *तीयते कि सुकृताश्चिते शची, तुलां त्वथा स्थानमधर्मकं त्रिता ॥१६
(व्या०) अखंडयन्त्येति । हे सुकृताश्चिते सुकृतेन पुण्येन अश्चिता युक्ता सुकृताश्चिता तस्या संबोधनं हे सुकृताश्चिते हे पुण्ययुक्त शची इन्द्राणो त्वया तुला सादृश्यं कि *तीयते ( ऋतीडीय ३-४-३ इ. सू. ऋतिधातोः स्वार्थे डोयः डिचात् आत्मनेपदम् ।) गच्छति अपितु न गच्छति । किं लक्षणा शची अधम्भकं स्थानं देवलोकं श्रिता आश्रिता पुन किं कुर्वतो ते तव सदने गृहे सदा ( सदाधुनेदानोंतदानोमेतर्हि ७-२-९६ इ. सू. सदा निपात्यते । ) सर्वदा गतागतं गतं च आगतं च एतयोः समाहारः गतागतं तत् गमनागमनं वित