________________
श्री जैन कुमारसम्भवाख्य महाकाव्यम् टीफासमलंकृतम् ॥ सर्गः ९ (२८१ क्रमयोश्चरणयोर्द्वय तस्य पुण्यत पुण्यात् इति पुण्यतः पुण्यप्रभावात् दास्यं स्पृहयन्ति ॥ ११ ॥
न कापथे कंटक कोटिसंकटे, पदेषु कासांचन पादुका अपि । मणिक्षमाचारभवः क्रमक्लमः शमं सुरीभिः सुकृतैस्तवाप्यते ॥१२॥
"
( व्या० ) नेति । हे प्रिये कासांचन स्त्रीणां कंटककोटिसंकटे कंटकानां कोटय. ताभिसंकुले कापये ( गति धन्यस्तत्पुरुष ३-१-४२ इ. सू. तत्पुरुप समास । काक्षपथो ३-२-१३४ इ. सू. पथशब्दे परे को कादेश | ऋक्पू· पश्यपोऽत् ७-३-७६ इम् पथिन् गब्दात् समासान्त अत्प्रत्यय 1 ) कुत्सिथ पन्थाः कापथस्तस्मिन् कुमार्गे पदे५ पादुका अपि न स्यु' । सुरीभिर्देवीभि' तत्र मणिक्षमा चारभव. मणिभिर्निर्मितायां क्षमायां चारात् चलनाद् भवः मणिकुट्टिमचलनात् समुत्पन्नः क्रमक्लमः क्रमयो क्रम पदश्रमः सुकृतैः पुण्यैः शमं उपशान्ति आप्यते प्राप्यते ॥ १२ ॥
बहुत्वतः काश्चन शायिनां वने, कृशे कुशश्रस्तरके शेरते । घुतल्पतूलीष्वपि न प्रिये रतिः सुमच्छदप्रच्छदमन्तरेण ते ॥ १३ ॥
"
( व्या० ) बहु इति । हे प्रिये काश्चन स्त्रियो वने वनमध्ये शायिनां शेरते इति शायिनस्तेषां बहुत्वत' बहुत्वं बहुत्वमिति बहुत्वतो बाहुल्यात् कृशे अल्पे कुशश्रस्तर के कुशानां श्रस्तरस्तस्मिन् दर्भसंस्तार के शेरते स्वपन्ति । हे प्रिये ते I तव चुत पतलीष्वपि दिव स्वर्गम्य तल्प शव्या तस्य तूलिकास्वपि सुमच्छड प्रच्छदं सुमाना पुष्पाणा छदो वस्त्रं तस्य प्रच्छदं उत्तरच्छदं (गौणात् समया निकपा हाधि'गन्तरान्तरेणातियेन तेनै द्वितीया २-२ - ३३ इ. सू अन्तरेणयोगे सुमच्छदप्रच्छद मित्यत्र द्वितीया ।) अन्तरेण विना पुष्पवस्त्रस्य उत्तरच्छदं विना नरतिर्न सुखम् ॥ १३ ॥ कदन्नमप्यात्ममनो विकल्पनै - महारसीकृत्य लिहन्ति काश्चन । चटुक्रियां कारयसि सत्प्रियाः, फलाशने त्वं सुरभूरुहामपि ॥ १४ ॥
( व्या० ) कदन्नमिति । कश्विन स्त्रिय कदन ( गतिकन्यस्तत्पुरुष ३१-४२ इ. सू तत्पुरुषसमास । को कन्तत्पुरुषे ३-२-१३० इ सू अन्न