________________
२८०) श्रीजेनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः९ तव गतं गमनं सतन्द्रीकृतहंसवल्लभं सतन्द्रीकृताः अलसीकृता: हंसानां वल्लभा हंस्यो येन तत् वर्तते । तव अङ्गसौष्ठवं अङ्गे सौष्ठवं (सुष्टु भाव. सौष्ठवं युवादेरण ७-१-६७ । इ. सू. सुष्टु शब्दात् भावे अण् । ) शरीरपाटवं निरंगलं निर्गता अगला बंधनं यस्य तत् अर्गलारहितं मङ्गलं वर्तते । तव गुणा माधुर्योदार्यादयः पदावदीमतविचक्षणा वदन्तीति वदावदा (चराचर चलाचल पतापत पदावद घनाधन पाट्पट वा । ४-१-१३ । इ. सू. अच् प्रत्ययान्तो पदावद शब्दो निपात्येति । ) वाचाला न पदावदा अवदावदा. अवदापदावदावदाता इति पदावदीभता. वाचालीभता ते च ते विचक्षणाश्च कवीश्वराः वाचालीभतकवीश्वरा वर्तन्ते ॥ ८ ॥ ९ ॥ युग्मम् ॥ न कोऽधिकोत्साहमना धनार्जन, जनेषु को वा न हि भोगलोलुपः । कुतः पुनः प्राक्तनपुण्यसंपदं, विना लता वृष्टिमिवेष्टसिद्धयः ॥१०॥ __(व्या०) नेति हे प्रिये कापुमान् जनेषु लोकेपु धनार्जने धनानामर्जन तस्मिन् धनोपार्जने अधिकोत्साहमनाः अधिकउत्साहो यस्य तत् अधिकोत्साह अधिकोत्साहं मनो यस्य सः अधिकोत्साहमनाः अधिकतरोधमचित्तो न स्यात् अपि तु स्यादेव हि निश्चितम् । वा अथवा कः पुमान् भोगलोलुपः भोगेषु लोलुपः सुखलम्पटो न स्यात् अपि तु स्यादेव । प्राक्तनपुण्यसम्पदं विना प्राकूभवा प्राक्तनी (सायं चिरं पाहणे प्रोऽययात् ६-३-८८ इ. सू. तनट् प्रत्ययः ।) पुण्यानां सम्पद् पुण्यसम्पद् । पाक्तनी चासौ पुण्यसम्पत् च तां विना पुनकुत इष्टसिद्धयः इष्टानां सिद्धयः स्युः । का इव लता इव पल्ल्य इव यथा लता वाल्यो वृष्टिं विना कुतः स्युः ॥ १० ॥ न जापलक्षरपि यनिरीक्षण, क्षण समश्येत विचक्षणैरपि। सुराङ्गनाः सुन्दरितास्तवक्रम-द्वयस्य दास्यं स्पृहयन्ति पुण्यतः॥११॥
(व्या०) नेति । विचक्षणैरपि बुधैरपि यन्निरीक्षणं यासां सुराङ्गनानां निरीक्षणं दर्शनं जापलभैरपि जापानां लक्षणितैरपि क्षणं न समश्येत न प्राप्येत । अशोट व्याप्तो इति धातो प्रयोगः । हे सुन्दरि ताः सुराङ्गना. तब क्रमद्यस्य